Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
१६७
श्रयपुरुष सद्भावशंकया नाप्रामाण्याभावनिश्चयः स्यादितीतरेतराश्रयत्वान्न शब्दादपि तत्सिद्धिः । न च तदभावप्रतिपादकं वेदवाक्यमस्ति । नापि विधिवाक्यादन्यस्य मीमांसकैः ः प्रामाण्यमिष्यते यतस्तस्य कल्पना स्यात् । न प्रामाण्यलक्षणोऽर्थः पौरुषेयत्वाभावमंतरेण नोपपद्यते । तथाविधस्यावबोधकत्वलक्षणस्य प्रामाण्यस्यागमांतरेऽभावात् । दोषाश्रयपुरुषसद्भावान्न तथाविधप्रामाण्यमन्यत्रेति चेदत्र पुरुषाभावः कुतोऽवसितः ? अन्यतश्चेत्तदेवोच्यतां किमनेन सिद्धोपस्थायिना । प्रामाण्यादन्यथाऽनुपपत्तेरिति चेच्चक्रकप्रसंगः । नाप्रामाण्यलक्षणोऽर्थः पौरुषेयत्वाभावमंतरेण नोपपद्यते प्रागुतदोषानतिवृत्तेः । न च प्रामाण्याभावात्पुरुषस्याभावसिद्धिर्युक्ता धूमाभावादग्न्यभाववत् । कार्याभावस्य कारणाभावव्यभिचारात् । अन्यथानुपपत्तेरभावादप्रतिबद्धसामर्थ्यस्य पुंसोऽप्रामाण्यकारणस्याभावसाधनेऽपि न सर्वथा पुरुषस्याभावसिद्धिः । अप्रामाण्याजनकस्य पुरुषस्यानिराकरणात् । इष्टसिद्धिश्वाप्रामाण्यकारणस्यातींद्रियज्ञानविकलस्य पुंसो ज्योतिःशास्त्रादौ भवता वेदरूपतयाऽभिमतेऽस्माभिरनिष्टत्वात् । नन्वतींद्रियज्ञातुरभावादन्यस्याप्यनिष्टेः सिद्ध एव सर्वथा पुरुषाभावः । कथं पुनरतींद्रियार्थवेदिनो भवता विभावितोऽभावः । न तावत्प्रत्यक्षेण प्रत्यक्षस्यात्यक्षेऽनक्षज्ञानवति भावाभावविवेचनसामर्थ्याभावात् । भावे वा नास्मिन्देशकालेऽभावसाधनं घटते ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226