Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १९७ र्मक्षयेऽपि तेषां सामर्थ्यं किं न कल्प्यं विशेषाभावात् । यदि च दीक्षातः कर्मक्षयोऽवश्यंभावी तदा दीक्षानंतरमेव कर्मकार्यस्य व्याध्यादेरनुपलभः स्यात् । भवति चोपलब्धिः । तस्मात्कर्मकार्यस्य व्याध्यादेरुपलंमादक्षीणं दीक्षितस्य कर्मेत्यवसीयते । तदेवं संचितकर्मक्षये ऽन्यस्योपायस्याभावात्पारिशे-. प्याद्यथोक्तस्य चारित्रस्येव तत्र सामर्थ्यमवसीयते । नन्वस्तु नाम श्रूयमाणानां संचितकर्मक्षये दीक्षादीनामसामर्थ्यं तथापि पारिशेष्यात्सम्यग्दर्शनादीनामुपायत्वसिद्धिः । अश्रूयमाणस्यानुपायत्वसिद्धेरिति चेत्तदश्रूयमाणमुपायांतरं सम्यग्दर्शनादि विलक्षणं वा विलक्षणं चेत्तस्यानागतकर्मानुत्पत्तावपि सामर्थ्य मनुपपद्यमानं कथं संचितकर्मक्षये संभाव्येत । अविलक्षणं चेत्तह्येतदेव तदिति कथं न पारिशेष्याद्रत्नत्रयोपायस्योपायत्वसिद्धिः ॥ योक्तं- न च कर्मक्षयः शक्यते कर्तुं तृष्णायां स्थितायां पुनः कर्मणामुत्पतेरिति । तदप्ययुक्तं यथोक्तचारित्रादेव तृष्णाप्रहाणात्पुनः कर्मणामनुत्पत्तेरिति ॥ यत्पुनरुक्तं व्यर्थः कर्मक्षये श्रमः कर्मणि स्थितेऽपि तृष्णाप्रहाणे कारणवैकल्यात् कर्मतृष्णाप्रभवस्य पुनर्भवप्रतिसंधानस्याभावात् इति । अत्रापि यदि तावत्सर्वज्ञत्वाप्रतिबंधकर्मणः क्षये व्यर्थः श्रम इत्युच्यते तदाऽपि सिद्धसाधनं । तत्प्रतिबंधकस्य तु कर्मणः क्षये श्रमो व्यर्थः । तदपरिक्षये सर्वज्ञत्वायोगात् । न च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226