Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 222
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः २०१ सर्वात्मज्ञानविज्ञानरहितैरप्यनुमानादुपमानादर्थापत्तेः शब्दादभावप्रमाणाद्वा सर्वत्र सर्वदा सर्वज्ञाभावः प्रतीयत इत्येतदप्ययुक्तं । तथाहि शब्दस्य तावदेवंविषये प्रामाण्यमेव नास्ति कार्यार्थे तस्य प्रामाण्यात् । अनुमानादेरपि सर्वज्ञाभावप्रतिपत्तिर्नासर्वज्ञस्य कल्प्यते । तथाहि - न तावद - नुमानादसर्वज्ञस्य सर्वज्ञाभावप्रतीतिर्युक्ता । अनुमानं हि ज्ञातसंबंधस्यैकदेशदर्शनादेकदेशांतरेऽसन्निकृष्टेऽर्थे बुद्धिर्न चासर्वज्ञत्वे । न कस्यचिद्धेतोः सहभावदर्शनमात्राद्विपक्षव्यतिरेकनिश्चयमंतरण संबंधः प्रतिपत्तुं शक्यते । नापि वागादिमान् न कश्चित्सर्वज्ञो दृष्ट इत्यनुपलंभाव्यतिरेकनिश्चयद्वारेण संबंध ः प्रतीयत इति युक्तं । स्वसंबंधिनोऽनुपलंभस्यानैकांतिकत्वात् । सर्वसंबंधिनोऽसंभवात् । सर्वज्ञाभावस्यासिद्धौ सर्वज्ञस्य वागादिमत्त्वेन स्वयमुपलब्धेः सर्वज्ञांतरेणोपलब्धेश्व संभवात् । सर्वज्ञस्य कस्यचिदप्यभावात्सर्व संबंधिनोऽनुपलंभस्य संभवः स्यादिति चेत्कुतः प्रमाणात्सर्वज्ञस्याभावगतिः । यदि प्रमाणांतरात्तदेवोच्यतां किमनुमानेन ? अनुमानाच्चेदनुमानमेवाज्ञातसंबंधस्येत्यादि पुनरपि तदेवावर्तत इति चक्रकप्रसंगः। तस्मादसंभव एव सर्वसंबंधिनोऽनुपलंभस्य । संभवे वा तस्य सर्वात्मज्ञानविज्ञानरहितेन ज्ञातुमशक्यत्वादसिद्धिः । तस्मात्सर्वात्मज्ञानवत्सर्वसंबंधिनोऽनुपलंभस्य सिद्धिर्युक्ता इति तस्यैव स्वसंबंधिनः सर्वसंबंधिनों वाऽनुपलं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226