Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
संभवः स्यादिति चेत् स्यादेतद्यदि कुतश्चित्सर्वज्ञाभावः सिद्धः स्यात् । प्रमाणांतरात्तदभावसिद्धिश्चेत्तदेवाच्यतां किमर्थापत्त्या । अर्थापत्तेश्चेत्सा प्रमाणषट्कविज्ञातस्यार्थस्यानन्यथाभवने सिद्धे सति व्याप्रियेतासिद्धे सतीत्यादि पुनरपि तदेवावर्तत इति चक्रकप्रसंग: । तस्मादसंभव एव सर्वसंबंधिनोऽनुपलंभस्य | संभवे वा तस्य सर्वात्मज्ञानविज्ञानरहितेन प्रतिपत्तुमशक्यत्वादसिद्धिः । तस्मात्सर्वात्मज्ञानविज्ञानवत एव सर्व संबंधिनोऽनुपलंभस्य सिद्धिर्युक्तेति । तस्यैव स्व संबंधिनः सर्व संबंधिनो वाऽनुपलंभादसाध्याद्व्यतिरेकसिध्द्याऽनन्यथाभवनसिद्धेरर्थापत्त्या सर्वज्ञाभाव - गतिरिति युक्तं । नाप्युपमानादसर्वज्ञः सर्वज्ञाभावमवैति । उपमानं हि सर्वान् पुरुषानिदानींतनान सर्वज्ञानुपलभ्य तत्सादृश्योपमानेन शेषाणामप्यसर्वज्ञत्वसाधनं । न चासर्वज्ञो सर्वज्ञत्वेनेदानींतनान् सर्वज्ञानुपमानभूतानुपमेयभूताँश्च शेषानशेषान् साक्षात्कर्तुं क्षमः येन तत्रोपमानं प्रवर्तेत । उपमानं हि उपमानोपमेययोरध्यक्षत्वे सादृश्यालंबनमुदेति नान्यथेति सर्वज्ञ एवोपमानात् सर्वज्ञाभावमवगच्छतीत्यभ्युपगंतव्यं ॥ तथा अभावप्रमाणादपि यथा च सर्वज्ञ एवाभावप्रमाणात्सर्वज्ञाभावं प्रतिपत्तुं समर्थस्तथा प्रागेव निवेदितं । तदेवमसर्वज्ञेनापि सर्वज्ञोऽयमिति प्रतिपत्तु शक्यते सर्वज्ञाभावस्त्वसर्वज्ञेन ज्ञातुं न केनचित्प्रमाणेन पार्यत इति स्थितं ।
For Private And Personal Use Only
२०३
Loading... Page Navigation 1 ... 222 223 224 225 226