Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४ भट्टानन्तकीर्तिप्रणीता अथवा माभूत्सर्वज्ञोऽयमिति प्रतिपत्तिस्तथापि न कश्चिद्दोषः । न सर्वज्ञोऽयमित्यप्रतिपद्यमानः कथं तद्वचसः प्रामाण्यमवगच्छति कथं वा तदुक्तमनुतिष्ठतीति चेन्न ब्रूमः सर्वज्ञत्वावगमपूर्वकं तदुपदेशस्य ग्रहोपरागमुक्तिमार्गादिविषयस्य प्रामाण्यनिश्चयं येनायं दोषः स्यात् । किं तु संवादबलात्तथा निश्चितप्रामाण्याच तदुपदेशालिंगभूताद्योऽस्य प्रणेता स सर्वज इत्यवगमः । तदनेन यदुक्तं
सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ॥
कथं तदुभयं सिध्येत्सिद्धमूलांतराहते ॥ १ ॥ इति तन्निरस्तं । नापि कारकपक्षेऽन्योन्याश्रयत्वं बीजांकुरवदनादित्वात्सर्वज्ञागमप्रवाहस्य ॥ तदनेनापि यदुक्तं
नर्ते स आगमात्सित्येन च तेनागमो विना ॥
दृष्टांतोऽपि न तस्यान्यो नृषु कश्चित्प्रतीयत इति ॥१॥ तदप्यपास्तं । तस्मात्
यैरुक्तं केवलज्ञानमिंद्रियाद्यनपेक्षिणः ॥
सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैरदः ॥ १ ॥ इति सर्वज्ञसिद्धिः कृतिभट्टानंतकीर्तेः । मंगलमस्तु भव्यजनाय । श्रीविद्यसमंतभद्रगुरवे नमः ॥
है समाप्तोऽयं प्रथः
For Private And Personal Use Only
Loading... Page Navigation 1 ... 223 224 225 226