Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra २०२ www.kobatirth.org भट्टानन्तकीर्तिप्रणीता Acharya Shri Kailassagarsuri Gyanmandir स्थितं । न भाद्व्यतिरेकसिद्धेरनुमानात्सर्वज्ञाभावगतिरिति सर्वज्ञानुमानेष्वेष दोषः समानः अनुमानांतरेष्वनुपलंभव्यतिरेकेण व्यतिरेकप्रसाधकस्य प्रमाणांतरस्य भावात् । नाप्यर्थापत्त्या सर्वज्ञाभावस्यासर्वज्ञेन प्रतीतिर्युक्तिमती । यतः - प्रमाणषट्कविज्ञातो यत्रार्थोऽनन्यथा भवन् ॥ अदृष्टं कल्पयेदर्थं सार्थापत्तिरुदाहृता ॥ १ ॥ सा चेत्थंभूतार्थापत्तिः प्रमाणषट्क विज्ञातस्यार्थस्यानन्यथाभवने सिद्धे सति व्याप्रियेतासिद्धे वा ! यद्यसिद्धे तदा स येन विनाऽपि भवति तमपि किं न कल्पयेत् ? येन विना स न भवति तमपि कल्पयेत् । सतोऽप्यनन्यथाभवनस्याविज्ञातस्याविद्यमानाविशेषात्प्रमाणषट्कविज्ञातस्यार्थ स्यानन्यथाभवनमसिद्धमपि स्वशक्त्यैवादृष्टं कल्पयतीति चेत्तर्हि लिंगस्याप्यविनाभावनियमोऽसिद्धः स्वशक्त्यैव किं न लिंगिनं गमयेत् । एवं सर्वमेवानुमानमर्थापत्तिरेव स्यात् । तथाच प्रमाणषट्कसंख्या निवर्तत इति । अथ सिद्धेऽनन्यथाभवने सा व्याप्रियते अत्रापि प्रमाणषट्कविज्ञातस्यासाध्यात्कुतो व्यतिरेकनिश्चयो यतोऽनन्यथाभवनस्य सिद्धिः स्यात् । अनुपलब्धेश्चन्न । स्वसंबंधिनोऽनुपलंभस्यानैकांतिकत्वात्सर्वसंबंधिनोऽसंभवात् । सर्वज्ञाभावस्यासिद्धौ सर्वज्ञस्य वागादिमत्त्वेन स्वयमुपलब्धेः सर्वज्ञांतरेणोपलब्धेश्व संभवात् । सर्वज्ञस्य कस्यचिदप्यभावात्सर्वज्ञसंबंधिनोऽनुपलंभस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226