Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 220
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः कथं तैस्तदर्थोऽनुष्ठीयेत । परस्य चोपदिश्यतेति शिष्याचार्यपरंपरयेदानीं यावदागमस्यागम एव न स्यात् । तथाच तन्मूलमनुष्ठानं न कस्यचिदपि स्यादिति सन्नपि सर्वज्ञोऽस.त्कल्प एव स्यादनुपयोगात् । तथाचोक्तं सर्वज्ञा बहवः कल्प्याश्चैकसर्वज्ञसिद्धये ॥ य एवैकोऽप्यसर्वज्ञः स सर्वज्ञं न कल्पयेत् ॥ १ ॥ सर्वज्ञोऽयमिति ह्येवं तत्कालैरपि बोद्धृभिः ॥ तज्ज्ञानज्ञेयविज्ञानशून्यैातुं न शक्यते ॥ २ ॥ सर्वशिष्यैरपि ज्ञातानर्थान् संवादयन्नपि ॥ . न सर्वज्ञो भवेदन्यलोकज्ञातार्थवर्जनात् ॥ ३ ॥ न च सर्वनरज्ञातज्ञेयसंवादसंभवः ।। कालत्रयत्रिलोकस्थैनरैर्न च समागमः ॥ ४ ॥ सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्रति ।। तद्वाक्यानां प्रमाणत्वं मूलाज्ञानोऽन्यवाक्यवत् ।। ५ ॥ इति । तदप्यनेनैव निरस्तमिति वेदितव्यं । इदानींतनानामिव सर्वज्ञसमानकालीनानामप्यस्मादेव हेतोः सर्वज्ञसद्भावप्रतीतिसिद्धेः । नायमित्थंभूतो नष्टमुष्ट्यादेव्याणामक्षराणां च संयोगवियोगशक्तरायुःप्रमाणस्य चोपदेशो ज्योतिःशास्त्रे विद्यायुर्वेदाद्याभज्ञेषु संभवति ॥ तेषां हि तदुपदेशाद्विल For Private And Personal Use Only

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226