Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
भट्टानन्तकीर्तिप्रणीता
सर्वज्ञो नास्ति ग्रहोपरागाद्युपदेशस्यान्यथाऽनुपपत्तेः । तस्मात्सम्यग्दर्शनज्ञानचारित्रात्मक एव मोक्षमार्गः सिद्धः । तथाविधमोक्षमार्गसाक्षात्करणं च ग्रहोपरागाद्युपदष्टुः सिद्धं । यश्चेत्थंभूतस्य मार्गस्य द्रष्टा सोऽहन्नेवेति सर्वज्ञविशेषस्यैवास्माखेतोः सिद्धिः ॥ यदुक्तं- यदीयागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते इत्यादि । तन्निरस्तं वेदितव्यं ॥ ___ यच्चान्यैरुच्यते---- आस्तां तावत्सर्वज्ञशून्यः कालः । तत्सहितेऽपि काले कथं सर्वज्ञोऽयमिति प्रतीयते। न तावत्प्रत्यक्षेणचेतोधर्मत्वेन सर्वज्ञत्वस्यातीन्द्रियत्वात् । नाप्यनुमानेन देवागमादिहेतूनां सर्वज्ञत्वमंतरेणानुपपत्तेरभावात् । नापि शिष्यैफ़्तानस्तिथैव प्रतिपादनद्वारेण संवादयन् सर्वज्ञ इति प्रतीयते । तथापि सर्वशिष्यज्ञानार्थविषयमेव तस्य परिज्ञानं सिध्येत् न सर्वलोकज्ञानार्थविषयं । कालत्रयत्रिलोकस्थपुरुषैः समागमाभावेन तज्ज्ञार्थसंवादनासंभवात् । नापि कश्चिदेकः शिष्योऽशेषविदस्ति यतस्तज्ज्ञानज्ञेयसमस्तवस्तुसंवादनात्सर्वज्ञ इति निश्चीयते । ततः सर्वज्ञेनैव सर्वज्ञः प्रत्यक्षेण रवज्ञातमर्थ सर्व संवादयन्ननुमानेन वा प्रतीयेत । सोऽप्यन्येन सर्वज्ञेन सोऽप्यन्येनेत्येवमेकसर्वज्ञसिद्धौ बहवस्तव सर्वज्ञाः कल्पनीया भवेयुरिति । यतो य एवैकोऽप्यसर्वज्ञः सर्वज्ञमप्रतिपद्यमानो न तद्वचनं प्रामाण्येन निश्चिनुयात् ततः
For Private And Personal Use Only
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226