Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
१९५ मवसीयते इति । ननु संचितस्य कर्मणः क्षये फलोपभोगः कारणमस्ति ततः कथमन्योपायः क्षयो न युज्यत इति । अत्रोच्यते- यदि संचितस्य कर्मणः फलोपभोगादेव क्षय इष्यते तदा तस्य क्षय एव न स्यात् । फलोपभोगेन कर्मक्षयस्य कर्तुमशक्यत्वात् । स्त्र्याधुपभोगादिभ्योऽवश्यंभाविभ्योऽपूर्वकर्मप्रादुर्भावात् । नापि तदा रागादिप्रतिपक्षभावना संभवति । तत्संभवे स्त्र्याधुपभोग एव न स्यात् । कायक्लेशेन पूर्वकृतस्य कर्मणः फलोपभोगेन प्रक्षयादनागतस्य प्रतिपक्षभावनातोऽनुत्पत्तेरदोष इति चेन्न । फलवैचित्र्यदर्शनात्कर्मणामनेकरूपफलदानसामर्थ्यमनुमीयते । तेषां च नानाफलदानसमर्थानां कर्मणामेकरूपात्कायपरितापलक्षणात्फलात्फलदानेन कर्मणां क्षयो युज्यते । तपःशक्त्या संकीर्णशक्तीनि कर्माणि क्रियते येनैकरूपेणैव फलेन क्षयं व्रजंति । ता एव कर्मशक्तयो विचित्रास्तपःशक्त्या स्वयं क्षयमुपनीयंत इति चेत् यदि तत्तपःक्लेश एव कर्मफलमित्यस्मान्न कर्मशक्तेः संकरः संक्षयो वा। अथ क्लेशादन्यतत्रापि शक्तिसंकरपक्षे संकीर्णशक्तीनां कर्मणामेकदिवसोपवासजनितक्लेशमात्रेणैव फलोपभोगेन प्रक्षयान्महोपवासारंभस्य वैयर्थ्य । फलोपभोगेनैव कर्मणां क्षय इत्येकांतश्च न स्यात् । कायक्ले. शतपोभ्यां प्रक्षयाभ्युपगमात् । शक्तिसंक्षयपक्षे त्वक्लेशरूपात्तपस एव सकलकर्मणः परिक्षयात्कायक्लेशवैयर्थं । फलोपभो
For Private And Personal Use Only
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226