Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
१९३ नास्ति । यदा हि कर्माणि न करोति कृतानां च कर्मणां फलं न भुक्ते तदाऽऽत्मलक्षणतां सोऽतिक्रामति । क्रियाभोगौ हि लक्षणमात्मनस्तौ चेन्न स्तो न स आत्मेति तदप्यसमंजसं । यो हि कर्तृत्वभोक्तृत्वे लक्षणमात्मनो वर्णयति तस्य भवत्ययं दोषः । वयं तु ज्ञानदर्शनसुवीर्यातिशयलक्षणमात्मनो वर्णयामः । तच्च मुक्तावस्थायामप्यस्ति संसार्यवस्थायामपि । संसार्यवस्थायां तु कर्मपटलावच्छिन्नमनभिव्यक्तमेवैतद्रूपमास्ते । ततो मुक्तावस्थायां लब्धात्मस्वभावमात्मानं वर्णयतां न नैरात्म्यमनुषज्यते इति न कश्चिदोषः । तदेवं संसारकारणेषु हेतुषु आत्मदर्शनस्नेहादेः प्रवृत्तिहेतुत्वानुपपत्तेर्न तद्विरुद्धं नैरात्म्यदर्शनं ततो व्यावृत्तिहेतुः । किंतु हेयोपादेयतत्त्वज्ञानस्यैव तत्प्रवृत्तिहेतुत्वात्तद्विरुद्धं जीवादिपदार्थज्ञानं सम्यग्ज्ञानाख्यमुक्तेन प्रकारेणं हेयोपादेयतत्त्वविषयं सम्यग्दर्शनसहायं बाह्याभ्यंतरसंसारकारणव्यावृत्तिलक्षणस्य सम्यक्चारित्रस्योपात्तागामिकर्मक्षयानुत्पत्तिहेतोनिमित्तमिति स्थितं ।। भवतु नाम सम्यग्ज्ञानपूर्वकादित्थंभूतचारित्रादनागतस्य कर्मणोऽनुत्पत्तिः संचितस्य तु कर्मणः कथं परिक्षयः संचितकर्माविपक्षत्वात्तस्य । चान्यतद्विपक्षभूतं प्रत्यक्षतोऽनुमानतो वा संपश्यामः ! न चाप्यागमात्तत्प्रामाण्यस्यासिद्धेः । न च कर्मक्षयः शक्यते कर्तुं प्णायां स्थितायां पुनः कर्मणामुत्पत्तेः । तृष्णाप्रहाणार्थ
For Private And Personal Use Only
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226