Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 215
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१९४ भट्टानन्तकीर्तिप्रणीता मपि यत्नः क्रियते ततोऽयमदोष इति चेत् तर्हि व्यर्थः कर्मक्षये श्रमः । कर्मणि स्थितेऽपि तृष्णाप्रहाणे कारणवैकल्यात् कर्मतृष्णाप्रभवस्य पुनर्भवप्रतिसंधानस्याभावादित्येतदनालोचितसिद्धांतं । तथाहि- यत्तावदुक्तं संचितस्य कर्मणो न कश्चिद्विपक्षोऽस्तीत्यत्र यदि तावत्सर्वज्ञत्वप्रतिबंधकस्य कर्मणो न कश्चिद्विपक्षोऽस्तीत्युच्यते तदयुक्तं । ग्रहोपरागाद्युपदेशसिद्धसर्वज्ञत्वान्यथानुपपत्त्या तत्प्रतिबंधकस्य कर्मणः परिक्षयसिद्धेस्तद्विपक्षस्यापि सद्भावनिश्चयात् । नानुपायस्तत्परिक्षयः सर्वत्र प्रसंगात् । स च प्रतिपक्षः सम्यग्दर्शनज्ञानचारित्रात्मक एव युक्तः। तस्यानागतकर्मानुत्पत्ताविव संचितकर्मक्षयेऽपि सामोपपतेः । कारणनिरोधस्य लंघनस्येवानागतानुत्पत्तावुत्पन्ननिरोधे च सामर्थ्यदर्शनात् । लंघनस्यानागतदोषानुत्पत्तौ संचितदोषक्षयेऽपि साम र्थ्यस्य दृष्टत्वादस्तु तस्योभयत्रापि सामर्थ्य । सम्यग्दर्शनज्ञानपूर्वकस्थ बाह्याभ्यंतरसंसारकारणक्रियाव्यावृत्तिलक्षणस्य चारित्रस्य तु संचितकर्मक्षये सामर्थ्यमपश्यतः कथं तस्य तत्र सामर्थ्यमध्यवस्यामः । संभावनामात्रं तु स्यादिति चेन्न । पारिशेष्यात्तत्रापि तत्सामर्थ्यस्य सिद्धेः । तथाहि- सर्वज्ञत्वप्रतिबंधकस्य कर्मणः क्षयो निरूपितः प्राक् । स च क्षयो नाप्पनुपायो नाप्यन्योपायो युज्यते । अस्य च सामर्थ्य संभाव्यते । ततः पारिशेष्यादस्य तत्रापि सामर्थ्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226