Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १८५ समारोपितैकत्वविषयस्य विकल्पस्य निवृत्तिप्रसंगात् निश्चयारोपमनसोर्विरोधात् । अविरोधे वा सविकल्पकप्रत्यक्षवादिनोऽपि सर्वात्मना प्रत्यक्षणार्थस्य निश्चयेऽपि समारोपव्यवच्छेदाय प्रवर्तमानं न प्रमाणांतरमनर्थकं स्यात् । निवर्तत एवैकत्वविषयो विकल्पोऽनुमानात् क्षणिकत्वं निश्चिन्वत इति चेत्तर्हि सहजस्याभिसंस्कारिकस्य च सत्त्वदर्शनस्याभावात् तदैव तन्मूलरागादिविनिवृत्तेर्मुक्तिः स्यात् । न चायमेकत्वविषयः प्रत्ययो मानसो विकल्पः प्रतिसंख्यानेन निवतयितुमशक्यत्वात् । तथानुमानबलात्क्षणिकत्वं विकल्पयतोऽपि नैकत्वप्रत्ययो निवर्तते । शक्यंते हि कल्पनाः प्रतिसंख्यानेन निवर्तयितुं न प्रत्यक्षबुद्धयः । तस्माद्यथाऽवं विकल्पयतो गोदर्शनान्न गोप्रत्ययो विकल्पस्तथा क्षणिकत्वं विकल्पयतो प्येकत्वस्य दर्शनान्नैकत्वप्रत्ययो विकल्प इति ज्ञातव्यं । नाप्ययं भ्रांतः । प्रत्यक्षस्याशेषास्यापि भ्रांतत्वप्रसंगात् । बाह्याभ्यंतरेषु भावेष्वेकत्वग्राहकत्वेनैवाशेषप्रत्यक्षाणामुत्पत्तिप्रतीतेः । तथाच प्रत्यक्षस्याभ्रांतत्वविशेषणमसंभव्येव स्यात् । तस्मादेकत्वग्राहिणः स्वसंवेदनप्रत्यक्षस्याभ्रांतस्यैकत्वमंतरेणानुपपत्ते - रात्म्यवादिनः संसारकारणेद्यं कथमेकत्वप्रत्ययबलात्प्रवृत्तिरिति ।। यत्तूक्तं--- सास्रवचित्तसंतानस्य निवृत्तिर्मुक्तिरिति तत्पुनरयुक्तमेव । अंत्यक्षणस्यानर्थक्रियाकारित्वेनावस्तुत्वात् तज्जनकस्य चित्तक्षणस्यावस्तुत्वं ततस्तज्जनकस्य इत्येवमशेषतश्चित्तसंता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226