Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १८७ ह्यन्यो बद्धोऽन्यश्च मुच्यते । संतानैक्याबद्धस्यैव मुक्तिस्तत्रापीति चेद्यदि संतानः परमार्थसंस्तदाऽऽत्मैव संतानशब्देनोक्तः स्यात् । अथ संवृतिसँस्तदा एकस्य परमार्थतोऽसत्वादन्यो बद्धोऽन्यश्च मुच्यत इति स्यात् । तथाच बद्धस्य मुक्त्यर्थं प्रवृत्तिर्न स्यात् । अथात्यंतनानात्वेऽपि दृढरूपतया क्षणानामेकत्वाध्यवसायाबद्धमात्मानं मोचयिष्यामीत्यभिसंधाय प्रवर्तते । न तर्हि नैरात्म्यदर्शनं । तदभावे च कुतो मुक्तिः । अथास्ति नैरात्म्यदर्शनं शास्त्रसंस्कारजनितं । न तकत्वाध्यवसायोऽस्खलद्रूप इति कुतो बद्धस्य मुक्त्यर्थं प्रवृत्तिः स्यात् । तथाच मिथ्याध्यारोपहानार्थ यत्नः असत्यपि मोक्तरीत्येतत्प्लवते। तस्मादसति जीवे बंधमोक्षयोस्तदर्थं वा प्रवृत्तेरनुपपत्तेहेयोपादेयतत्त्वं ज्ञातुमिच्छताऽवश्यं जीवसद्भावोऽपि ज्ञातव्यः । तथाचाजीवसद्भावोऽपि । तदभावे हि केन बद्धः कुतो वा मोक्षः। तथाहि पुद्गलपरिणामकमशरीरसंबंधो बंधस्ततो विश्लेषो मुक्तिः। अजीवाभावे च केन संबंधः कुतो वा विश्लेष इति । ततः सूक्तं सूत्रकृता-जीवाजीवास्रवबंधसंवरनिर्जरामोक्षास्तत्वमिति ॥ ___ तदेवं जीवादिपदार्थज्ञानं हेयोपादेयतत्त्वविषयं अतस्तदेव संसारकारणेभ्यो व्यावृत्तिहेतुर्न नैरात्म्यज्ञानं । हेयोपादेयतत्त्वाज्ञानं हि संसारकारणेषु हेयेषु प्रवृत्तिकारणं नात्मदर्शनस्नेहादिकं । सर्वत्र हि हेयोपादेयतत्त्वाज्ञानमेव हेयेषु प्रवृत्तिनि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226