Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टानन्तकीर्तिप्रणीता कारणेष्वात्मीयबुद्धिं स्नेहं चोत्पादयति । अनुत्पन्नश्चात्मीये स्नेहो न वैराग्यं प्रतिबध्नातीति ॥ यच्चोक्तं- न च दुःखभानया वैराग्यं भवति । यतो दुःखं भावयन्नप्यसौ योगी दुःखमेव प्रत्यक्षीकुर्यात् नाधिकं कर्तुं क्षमः । तच्च दुःखं पूर्वमपि प्रत्यक्षमेव तस्यासीन्न च तत्र विरागवानभूत् तथाभावनया प्रत्यक्षीकृतदुःखो नैव वैराग्यमुपयास्यतीति व्यर्थः शास्त्रे दुःखभावनोपदेश इति । तच्चयुक्तं- यथाहि मूढो निंबकीटकस्तिक्तमपि रसं मधुरमिति मन्यते तथा संसारी जीवो हेयोपादेयतत्त्वमजानन् दुःखमपि सुखमिति मन्यमानो न दुःखं प्रत्यक्षीकरोतीति । प्रत्यक्षीकुर्वन्नपि वा तादात्विकमेव दुःखं प्रत्य. क्षीकुर्यात् न जातिजरामरणप्रबंधलक्षणं दुःखमिति नाज्ञो विरज्यते । हेयोपादेयतत्त्वज्ञस्तु संयोगसंबंधं सर्वमेव जातिजरामरणप्रबंधलक्षणस्य संसारदुःखस्य हेतुरिति भावयन् संयोगसंबंधेषु भावेषु साकल्येनोपेक्षालझणं वैराग्यमात्मसात्करोतीति यश्चैवं साकल्येन विरक्तः स न क्वचिदपि संयोगसंबंधे गुणं पश्यतीति । न पुनर्गुणदर्शनाकिंचित्कचिदपि अनुरज्यते । तदनेन यदुक्तं- यद्यपि क्वचिदात्मसुखसाधनत्वेनोपगते केनचिदोषेण तावत्कालमनुरागिणी मतिः स्खलिता तथापि तत्र नैवात्यंततयाऽसौ विरक्तो द्रष्टव्यः । यतः सर्वविषयस्नेहस्याप्रहाणात्पुनर्गुणदर्शनादिना संभक्तदनुराग एव भवतीतितत्प्रतिव्यूढं । अज्ञो हि तादात्विकदुःखहेतुत्वाख्यस्य तादा
For Private And Personal Use Only
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226