Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८९
बृहत्सर्वज्ञसिद्धिः हेयोपादेयतत्त्वज्ञो हि आत्यंतिकसुखसाधनमुपभोगाश्रयमात्मीयं च मन्यते । न तादात्विकसुखसाधनं । तथाहि
एगो मे सस्सदो अप्पा णाणदसणलख्खणो ॥ सेसा मे बाहिरा भावा सव्वे संजोगलख्खणा ।। १ ॥ संजोगमूलं जीवेण पत्तं दुख्खपरंपरं ।।
तंहा संजोगसंबंध सव्वं तिविहेण वोसरे ॥ २ ॥ इत्येवं भावयतो विवेकिनः संयोगसंबंधेषु दुःखहेतुषु सुखलेशसाधनत्वसद्भावेऽप्यन्यदात्यंतिकसुखसाधनं बाह्येभ्यो निवृत्तिं पश्यतः कुतस्तेष्वात्मीयबुद्धिः । यतस्ततो निवृत्तिर्न स्यादिति । एतेन यदुक्तं भवत्येव दुःखहेतुष्वात्मीयबुद्धावृत्तिर्ययेकांतेन तेषां दुःखहेतुत्वमेव स्यात् यावता पर्याणसुखहेतुत्वमप्यस्ति । तेन दुःखजनकत्वेऽप्यात्मीयस्लेहायेनाकारेण सुखहेतुता तावतांशेन स्वस्योपकारकानिंद्रियादीन्मन्यमानस्तेषु नात्मीयबुद्धिं नहातीति । तन्निरस्तं वेदितव्यं । संयोगसंबंधानां दुःखहेतूनां सुखलेशसाधनत्वेऽप्यस्यात्यंतिकसुखसाधनस्य सद्भावेन निर्विपान्नस्य संभवेन सविषान्नस्येव त्यागसंभवात् ।। यदप्यन्यदुक्तंसर्वथाऽऽत्मग्रहः स्नेहमात्मनि द्रढयति आत्मस्नेहश्चात्मीयस्नेहं द्रढयतीति संबंधः सोऽप्यात्मीये महता संबंधेनारब्धमपि वैराग्यं तावत्कालमनभिमुखीभूतोप्यात्मीयस्नेहः तद्गुणलेशदर्शनद्वारेण पुनरभिमुखीभूतः प्रतिबध्नात्यात्मीयदोषाँश्च संवृणोतीति तदप्यनेनैवापास्तं । हेयोपादेयविवेकिनो ह्यात्मस्नेहो न संसार
For Private And Personal Use Only
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226