Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः १८३ अत्रोच्यते सांसारिकसुखसाधनेषु प्रवृत्तिः - संसारहेतुः । सम्यग्ज्ञानपूर्विका च ततो व्यावृत्तिर्मुक्तिहेतुरित्यत्र तावदावयोरविवाद एव । यत्तु सम्यग्ज्ञानं निवृत्तिहेतुस्तत्किं नैरात्म्यविषयमुत जीवाजीवास्रवबंधसंवरनिर्जरामोक्षविषयमित्यत्र विप्रतिपत्तिः । तत्र जीवादिपदार्थविषयं सम्यग्ज्ञानं सांसारिकसुखसाधनेभ्यो व्यावृत्तेर्हेतुरिति ब्रूमः । हेयोपादेयतत्त्वंविषयः सम्यग्ज्ञानस्य । तथाहि-बंधो हेयस्तदुपाय आस्रवः । मोक्ष उपादेयस्तदुपायः संवरो निर्जरा च । तौ च बंधमोक्षौ जीवाजीवयोः सतोरेवोपपद्यते । तथाहि- असति जीवे कस्य बंधः कस्य वा बंधकारणेषु प्रवृत्तिः । तथा कस्य मुक्तिः कस्य वा मुक्त्यर्थ प्रयत्न इति । नैव कश्चिदात्मा स्थिरादिरूपोऽस्ति यस्य बंधो मुक्तिर्वा स्यात् । केवलं दुःखमात्रमिदं सहेतुकं प्रबंधेन प्रवर्तते । हेतुवैकल्याच कदाचिन्न भवति । ततः सास्रवचित्तसंतानस्य प्रवृत्तिः संसारो निवृत्तिर्मुक्तिः । न पुनरवस्थितस्यात्मनः संसारो मुक्तिर्वा विद्यते । तथा स्थिरादिरूपस्य जीवस्याभावेऽपि निरन्वयविनश्वरचित्तसंताने स्थैर्यादिगुणसमारोपणात्माभिनिवेशादात्मप्रेमानुगतस्य दुःखासिका भवति । यावच्च दुःखासिका तावत् दुःखितमात्मानमारोप्य न स्वस्थोऽवतिष्ठते प्राण्यभिमतस्कंधसंतानः। किं तु सुखप्राप्तये दुःखपरिहाराय च प्रवर्तमानः सास्त्रवचित्तसंतानं संतनोति । यत एवं व्यामो
For Private And Personal Use Only
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226