Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 202
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १८१ जीवादिपदार्थविषयसम्यग्ज्ञानादिकमभ्यस्यति सोऽवश्यं तावदादावेवाहमित्यात्मानं पश्यति । आत्मदर्शी चात्मसत्तामा - त्रनिबंधनमात्मस्नेहमुपैति । आत्मस्नेहाच्चात्मसुखेषु परितृप्यन् सुखेषु तत्साधनेषु च दोषाँस्तिरस्कृत्य गुणानारोपयति । गुणदर्शी च परितुष्यन्ममेति सुखसाधनान्युपादत्ते । ततो यावदात्माभिनिवेशस्तावत्संसार एवेति । तदेवं जीवादिपदार्थविषयसम्यग्ज्ञानादि रागाद्युत्पत्तिं प्रति अनुकूलस्वभावं न तत्प्रतिपक्षभूतं अतस्तत्प्रकर्षतारतम्याद्रागादेः प्रकतारतम्यमेव युक्तं नापकर्षतारतम्यं । नैरात्म्यदर्शनं तु रागादिकारणात्मदर्शनविरोधित्वाद्रागादिप्रतिपक्षस्वभावमतस्त त्प्रकर्षतारतम्याद्रागादिहानितारतम्यं युक्तमिति चेदल प्रतिविधीयते । यत्तावदुक्तं यः पश्यत्यात्मानं स्थिरादिरूपं तस्य तत्रात्मनि स्थैर्यादिगुणनिमित्तस्नेहोऽवश्यंभावी । स्नेहाचात्मसुखेषु परितृप्यन् सुखसाधनेषु प्रवर्तत इति । तदस्माकमभीष्टमेव । किं तु अतज्ज्ञो जनो दुःखाननुषक्तसुखसाधनमपश्यन्नात्मस्नेहात्संसारांतः पतितेषु दुःखानुषक्तसुखसाधनेषु प्रवर्तते । हिताहितविवेकज्ञस्तु तादात्विकसुखसाधनं स्त्र्यादिकं परित्यज्यात्मस्नेहादात्यंतिक सुखसाधने मुक्तिमार्ग प्रवर्तते । यथा पथ्यापथ्यविवेकमजानन्नातुरस्तादा। त्विकसुखसाधनं व्याधिवृद्धिनिमित्तं दध्यादिकमुपादत्ते । पथ्यापथ्यविवेकज्ञस्तु आतुरस्तादात्विकसुखसाधनं दध्या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226