Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 200
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७९ बृहत्सर्वज्ञसिद्धिः लापोऽन्यस्य द्वेषः । तथोष्ट्रादीनां केवले लवणरसेऽभिलाषोऽ स्मदादीनां द्वेषः। तिक्तरसे निंबकीटस्याभिलाषोऽस्मदादीनां द्वेषः । शुंठ्यामुत्पन्नस्य पुनः कीटकस्य कटुरसेऽभिलाषोऽन्येषां द्वेषः। मक्षिकादीनामशुचिरसगंधयोरभिलाषोऽस्मदादीनां च द्वेषः । चंदनगंधेऽस्मदादीनामभिलाषो मक्षिकादीनां द्वेषः । पित्तप्रकृतेरुष्णस्पर्शे द्वेषो वातप्रकृतेरभिलाषः । शीतस्पर्शे वातप्रकृतेदे॒षः पित्तप्रकृतेरभिलाषः । भीरोभयानकरूपे भयं न धीरस्य । प्राणिहिंसादर्शने निर्दयस्य हर्षः कारुणिकस्य करुणा। तथैकस्याभ्युदये कस्यचिदमर्षः कस्यचिद्धर्षः कस्यचिदौदासीन्यं दृष्टं । एवमन्यदपि ज्ञेयं । तस्मान्न विषयानुभवः केवल एव सुखदुःखहर्षविषादामर्षादिहेतुः। किंतु कारणांतरसहितः । तच्च कर्मैव भवितुमर्हति । यद्यपि जातिविशेषस्वभावाभ्यासप्रकृतिविशेषादयः साक्षात्करणत्वेन प्रतीयंते तथापि तेषां जातिविशेषादीनामपि कर्मैव कारणमिति । तदेव प्रधानं कारणं । तच्च निरस्ताशेषदोषावरणस्य नास्तीति केवलो विषयानुभवस्तस्योपेक्षामेव सर्वत्र जनयति न सुखदुःखादिकं । निःशेषदोषावरणविश्लेषं च समर्थयिष्यामः ॥ भवतु नाम ग्रहोपरागाद्युपदेशान्यथानुपपत्या धर्माधर्मयोरितरसर्वपदार्थानां च साक्षात्करणं । मुक्तिमार्गसाक्षात्करणं तु कथं तस्य निश्चीयत इति चेत् ग्रहोपरागाद्युपदेशादेवेति ब्रूमः । तथाहि न तावद् ग्रहोपरागाद्युपदेशान्यथानुपपत्तिसिद्धं सर्वज्ञत्वं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226