Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १७७ लोकांतराणामभावात्कथं त्रिलोकस्थाशेषप्राणिगणसाक्षात्करणात्सर्वदर्शित्वमिति चेत्कथमसर्वज्ञो लोकांतराभावमवैति । कथं वा बह्मांडानामनंतत्वं । भवतु वा लोकांतराभावः । तथापि यथापरिदृश्यमानलोकाधारसर्वप्राणिगणसाक्षात्करणाससर्वज्ञत्वमनिवार्यं ॥ भवतु नामैवं सकलप्राणिगणस्य साक्षात्करणं इतरसर्वपदार्थसाक्षात्करणं तु कथमिति चेत्धर्माधर्मसाक्षात्करणादेवेति ब्रूमः । तथाहि- श्रेयःप्रत्यवाययोन केवलौ धर्माधर्मों जनकौ किं तु कारणांतरमपेक्ष्य । अन्यथा सेवाकृष्यादेरौषधाधुपयोगस्य च श्रेयोहेतुत्वेन लोके प्रसिद्धस्य तथा चौर्यादेरनिष्टाहारचेष्टाया विषशस्त्रकंटकादेश्च प्रत्यवायहेतुत्वेन लोके प्रसिद्धस्य वैय र्थ्यप्रसंगात् । तच्च कारणांतर सकलमेव जीवाजीवलक्षणं वस्तु । न हि किंचिज्जीवलक्षणमजीवलक्षणं वा वस्तु विद्यते यत्साक्षात्परंपरया वा कस्यचित्पुरुषस्य .श्रेयसः प्रत्यवायस्य वा कारणं न भवेत् । तस्माद्यत्काणांतरमपेक्ष्य धर्माधर्मी श्रेयःप्रत्यवायहेतू तदपि कारणांतरं साक्षात्कर्तव्यं । अन्यथा धर्माधर्मयोर्याथात्म्येन साक्षात्करणायोगात् । एवं धर्माधर्मयोरित. रसर्वपदार्थानां च साक्षात्करणसिद्धिः ॥ यदुक्तं परेण येऽपि च च्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति ॥ सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकंडनं ॥ १ ॥ इति । एतदयुक्तं । तथाहि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226