Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः सिद्धं । यत्रान्यथानुपपद्यमानादर्थात्साध्यं प्रतीयते तत्रैवान्यथानुपपद्यमानत्वं ज्ञायते इति चेदेवमत्रापि किं न स्यात् । एवमर्थापत्तिरेव स्यादिति चेदस्तु नामांतरं न तदस्माभिर्निवायते । यद्धि भबता सपक्षानुगमरहितमर्थापत्तिरित्युच्यते तदस्माभिरंतर्व्याप्त्याऽर्थमसाधनमनुमानमित्युक्तं अतो नाम्नि विप्रतिपत्तिर्नार्थ इति । सपक्षे सिद्धसंबंधमनुमानं साध्यधर्माधिकरणे धर्मिण्येव सिद्धसंबंधमर्थापत्त्याख्यं प्रमाणमतोऽस्त्यर्थेविप्रतिपत्तिरिति चेद्यचेतावता विशेषेणानयोर्भेद इष्यते तदा पक्षधर्मत्वसहितादनुमानात्तद्रहितं प्रमाणांतर न स्यात् । तथाच सप्तमस्य प्रमाणांतरस्य सिद्धेः प्रमाणषट्त्वसंख्या निवर्तते । नियमतोऽर्थादर्थांतरप्रतिपत्तेरविशेषान्न पक्षधमत्वसहितादनुमानात्तद्रहितं प्रमाणांतरमिति चेदेव तर्हि सपक्षे सिद्धसंबंधादनुमानात्साध्यधर्मिणि सिद्धसंबंधमपि प्रमाणांतरं न स्यादविशेषात् । अतो नाम्न्येव विप्रतिपत्तिर्नार्थे । ततः सपक्षेऽ नुगमरहितस्याप्यस्य हेतोर्गमकत्वं युक्तं । तदेवमसिद्धविरुद्धानेकांतिकत्वादिदोषरहितत्वादनवद्यमिदं साधनमतो भवत्येवाभिमतसाध्यसिद्धिरिति ॥ भवतु नामातो ग्रहोपरागादिसूक्ष्माद्यर्थस्य प्रत्यक्षत्वसिद्धिस्तदुपदेशस्य संवाददर्शनात् । धर्माधर्माद्यशेषसूक्ष्माद्यर्थप्रत्यक्षतासिद्धिस्तु कथं ? तदुपदेशस्य संवादानुपलब्धरिति चेद्ग्रहोपरागाद्युपदेशादेव सापि सिध्द्यतीति ब्रूमः । तथाहि ज्योतिःशास्त्रादग्रहोपरागादिकं विशि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226