Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० भट्टानन्तकीर्तिप्रणीता अनादिसिद्धं । अशरीरादनादिसिद्धात्सर्वज्ञात् ग्रहोपरागाद्यु. पदेशासंभवादसंभवश्वेश्वरनिराकरणप्रकरणे निरस्तत्वात् । नाप्यनुपायसिद्धं अहेतोः सर्वदा सर्वत्र प्रसंगात् । तस्मादुपायसिद्धेनानेन भवितव्यं । स चोपायस्तेन ज्ञातव्योऽन्यथा तदनुष्ठानायोगात् । परिज्ञानं परोपदेशात्परोऽपि अन्योपदेशाल्लब्धात्मलाभो मुक्तिमार्ग साक्षात्कृत्य उपदिशति । अन्योऽप्येवमित्यनादिः सर्वज्ञागमपरंपरा । साऽपि ग्रहोपरागोपदेशान्यथानुपपत्या सिद्धेति सिद्धं मुक्तिमार्गसाक्षात्करणं । स च मुक्तिमार्गः सम्यग्दर्शनज्ञानचारित्रात्मक एव युक्तः। तथाहि-यस्य यत्प्रकर्षतारतम्यादपकर्षतारतम्यं तस्य तत्प्रकर्षातिशयादत्यंतोच्छेदः । यथाऽनेः प्रकर्षातिशयाच्छीतस्पर्शस्य । उपलभ्यते च सम्यग्दर्शनादिप्रकर्षतारतम्याद्रागादेरपकर्षतारतम्यमिति । ननु रागादिहानितारतम्यस्य दर्शनादस्तु तत्सिद्धिः । तत्तु रागादिहानितारतम्यं सम्यग्दर्शनादिप्रकर्षतारतम्याद्भवतीत्येतदसिद्धं । सम्यग्दर्शनादे रागादिप्रतिपक्षतासिद्धेः । प्रत्युत सम्यग्दर्शनाद्यभ्यासो रागाधुत्पत्तिं प्रति अनुकूलस्वभावः । तथाहि- जीवाजीवादिपदार्थविषयं ज्ञानं सम्यग्ज्ञानं । तद्विषयं च श्रद्धानं सम्यग्दर्शनं । तत्पूर्वकश्च संसारकारणनिवृत्तिं प्रत्यागूर्णस्य बाह्याभ्यंतरक्रियाव्युपरमश्चारित्रं । तदभ्यासप्रकर्षतारतम्याच्च रागादीनामुत्कर्षतारतम्यमेव युक्तं । नापकर्षतारतम्यं । यो हि
For Private And Personal Use Only
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226