Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ भट्टानन्तकीर्तिप्रणीता येऽपि चाच्छिन्नमूलत्वाद्धर्मज्ञत्वे प्रसाधिते ॥ सर्वज्ञान् पुरुषानाहुस्तैः कृतं कणकं(ख)डनं ॥ २ ॥ ननु धर्माधर्मव्यतिरिक्तानशेषानप्यर्थान् साक्षात्कुर्वता सर्वज्ञेनाशुच्यादिरसस्याप्यास्वादनाद्धस्य चाघ्रातत्वात्तद्भक्षणादिदोषस्तस्य स्यात् । अग्न्याशुष्णस्पर्शस्य साक्षात्करणाद्दाहः स्यात् । मनोज्ञरूपाद्यनुभवादभिलाषः स्यात् । अमनोज्ञरूपस्यानुभवात् द्वेषः स्यात् । भयानकरूपदर्शनाद्भयेन संमोहः स्यात् । एवमन्येऽपि दोषा भवेयुरिति ॥ तथा चोक्तं साक्षात्प्रत्यक्षदर्शित्वाद्यस्याशुचिरसादयः ॥ स्वसंवेद्याः प्रसज्यंते को नु तं कल्पयिष्यतीति ॥१॥ इति चेत्तदप्ययुक्तं तथाहि- यदि तावदशुचिरसगंधयो रसनघ्राणाभ्यां संबंधात्तद्भक्षणादिदोषः पावकाद्युष्णस्पर्शस्य च स्पर्शनेन संबंधाद्दाहः स्यादित्युच्यते तदसिद्धं । रूपस्येव रसगंधस्पर्शादीनामप्राप्तानामेवातींद्रियप्रत्यक्षेण ग्रहणात् । अथ त्रिलोकांतर्गतानुकूलादिस्वभावरूपरसगंधस्पर्शादिसाक्षात्करणात्सुखदुःखद्वेषाभिलाषमोहादयो भवेयुरित्युच्यते तदप्ययुक्तं । विषयानुभवमात्रस्य सुखदुःखादीनामहेतुत्वात् । हेतुत्वे वा यथैकस्य पुरुषस्य कस्मिश्चिद्विषये सुखं दुःखं द्वेषोऽभिलाषो मोहोऽन्यद्वा भवति तथा सर्वेषामप्यविशेषेण स्यात् कारणस्याविशेषात् । नचैवं । तथा कस्मिन्नेव स्त्रीविषये कस्यचिदभि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226