Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 197
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ भट्टानन्तकीर्तिप्रणीता ष्टवर्णप्रमाणदिग्भागादिविशिष्टं प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्तिनां प्राणिनां प्रतिनियते काले प्रतिनियतफलसंसूचकत्वेन प्रतिपद्यते । यस्मादेवमुक्तं ज्योतिःशास्त्रे नक्षत्रग्रहपंजरमहर्निशं लोककर्मविक्षिप्तं । भ्रभति शुभाशुभमखिलं प्रकाशयत्पूर्वजन्मकृतं ॥१॥ तस्मात् ज्योतिःशास्त्रं ग्रहोपरागादिकमिव धर्माधर्मावपि प्रमाणांतरसंवादेन बोधयति । उक्तं चयदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्ति । व्यंजयति शास्त्रमेत तमसि द्रव्याणि दीप इव ॥२॥ इति अत एव ज्योतिःशास्त्रज्ञा दैवज्ञा इत्युच्यते । तस्मादेवं ग्रहोपरागाद्युपदेष्टुर्धर्माधर्मसाक्षात्कारित्वसिद्धौ तदन्यसर्वपदार्थसाक्षात्करणमपि सिद्धिमुपढौकते ।। तथाहि- श्रेयःसाधनं धर्मः । तच्च श्रेयो देवतिर्यग्लोकस्थपुरुषेषु व्यवस्थितमनेकप्रकारं । तथा प्रत्यवायहेतुरधर्मः । स च प्रत्यवायो नरकपृथ्वीतिर्यग्लोकाधारप्राणिषु प्रत्येकमनेकविधः । तस्माच्छेयःप्रत्यवाययोर्हेतुभूतौ धर्माधी साक्षात्कुर्वन् श्रेयःप्रत्यवाययोराधारभूताँस्त्रिलोकस्थान् प्राणिनोऽपि साक्षात्कर्तुमर्हतीति कथं सर्वदर्शी न स्यात् । ततस्तथाभूतौ धर्माधर्मी प्रतिपत्तुमिच्छतामस्माकं तस्य कीटकसंख्यापरिज्ञानं वा कथमुपयोगि न स्यात् । ननु परिदृश्यमानलोकव्यतिरेकेण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226