Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ भट्टानन्तकीर्तिप्रणीता कारिणा पुरुषेण पुनः पुनरयं प्रवच॑मानः इदानीं यावदायात इत्यवसीयते । तदेवमन्वयव्यतिरेकाभ्यां लिंगादनाछुपदेशपरंपरातो वा ग्रहोपरागादिकमवगम्य तदुपदेशकरणान्नानैकांतिको हेतुः ॥ ___ यदप्युक्तं विरुद्धश्चायं हेतुः । विसंवादकस्य ग्रहोपरागाद्युपदेशस्य सूक्ष्मादिपदार्थसाक्षात्करणमंतरेणैव भावादिति । तदप्ययुक्तं । संवाददर्शनात् । नाप्ययं काकतालीयो युज्यते दिक्प्रमाणफलकालादिविशिष्टग्रहोपरागाद्युपदेशसंवादस्योपदेशमंतरेण सकृदप्ययोगात् । योऽपि क्वचिद्विसंवादः स प्रत्यक्षादेरेव सामग्रीवैकल्यात् । कचिद्विसंवादात्सर्वत्राप्रामाण्ये प्रत्यक्षादेरप्यप्रामाण्यप्रसंगः । ततो न विरुद्धोऽप्ययं हेतुः । मा भूदयं विरुद्धोऽसाधारणस्तु स्यात् सपक्षेऽनुगमाभावादिति चेदस्तु । तथापि नास्यागमकत्वमुक्तेन प्रकारेणान्यथानुपपत्तेर्भवदीयनियमरूपायाः सद्भावेन गमकत्वोपपत्तेः । सपक्षेऽनुगममंतरेण सैव ज्ञातुमशक्येति चेत्कथमर्थापत्तावर्थापत्त्युपस्थापकस्यान्यथानुपपन्नत्वं सपक्षेऽनुगममंतरेण ज्ञायते । अन्यथाभवनमसिद्धमपि खशक्त्यैवादृष्टमर्थ कल्पयतीति चेदेवं लिंगस्याप्यविनाभावनियमोऽसिद्धः स्वशक्त्यैव हि किं न लिंगिनं गमयेत् । एवं च सर्वमेवानुमानमर्थापत्तिरिव स्यात् । तथाच प्रमाणषट्कसंख्या निवर्तेत । अथ सिद्धमेवानन्यथाभवनमर्थापत्त्युपस्थापकस्यादृष्टमर्थं कल्पयतीत्युच्यते तदा तत्सपक्षमंतरेण क For Private And Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226