Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ भट्टानन्तकीर्तिप्रणीता ग्रहोपरागादीनां दिक्प्रमाणफलकालादिषु नियमाभावात् । नापि ग्रहोपरागनष्टमुष्ट्यादयो लिंगदर्शनादनुमीयतें तलिंगसंबंधयोर्हि प्राकृतपुरुषदर्शनविषयत्वे अस्मदादीनां धूमादने. रिव ग्रहोपरागनष्टमुष्ट्यादीनां तलिंगादनुपदेशाप्रतीतिः स्यात् । लिंगसंबंधयोरप्यतींद्रियत्वे तयोरुपदेशमंतरेण प्रतिपत्तेरयोगात्तदुपदेष्टुरतींद्रियार्थदर्शित्वं स्यात् । नापि द्रव्याणामन्वयव्यति. रेकाभ्यां संयोगकल्पनामात्रावस्थावयवादिभेदेन शक्तिभेद. शक्यते प्रतिपत्तुं । अन्वव्यतिरेकाभ्यां हि तथा तत्प्रतिपत्तौ यावंति जगति द्रव्याणि तानि सर्वाण्येकत्र मीलयित्वैकस्य कल्ककषायादिकल्पनाभेदेन कर्षादिमात्राभेदेन बालमध्याद्यवस्थाभेदेन मूलपत्राद्यवयवभेदेन प्रक्षेपोद्धाराभ्यामेकोऽपि योगो युगसहस्रेणापि न ज्ञातुं पार्यते किमुतानेक इति । नाप्ययं नष्टमुष्ट्याद्युपदेशोऽप्यनादिः उपदेशपरंपरयाऽतींद्रियज्ञातुरभावेऽपि प्रमाणभूतः प्रबंधेनानुवर्तते इति युक्तं । तथाऽभ्युपगमे हि चैत्यवंदनाद्युपदेशोऽपि प्रबंधेनैवमनुवर्तमानः प्रमाणभूतो भवता किं नानुमन्यते । तदनुसारिभिरेवासावतींद्रियज्ञानपूर्व कत्वेनाभ्युपगतः तज्ज्ञानस्य चाभावादुपदेशपरंपरापाश्चानभ्युपगमान्न प्रमाणमिति चेत्कि पराभ्युपगमो भवतः प्रमाणं ? अन्यथा नष्टमुष्ट्यादिप्रतिपादकागमोऽपि न प्रमाणं । तस्यापि तैरेव तथाभ्युपगमात् । अविसंवादित्वादन्यस्य प्रामाण्यं नान्यस्याविसंवादाभावादिति चेन्न तर्हि वेदः प्रमाणमविसं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226