Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १७१ क्वचिददृष्टकर्तृके दृष्टकर्तृकसजातीये कृत्रिमव्यवहारः स्यात् । उपलभ्यते चादृष्टकर्तृकेऽपि दृष्टकर्तृसजातीये प्रासादादौ कृत्रिमव्यवहारो लोकस्यास्खलद्रूपः । तस्माददृष्टकर्तृके दृष्टकर्तृकसजातीयत्वं नाशंकनीयं । अत एव न विरुद्धोऽप्ययं हेतुः । तस्मादसिद्धविरुद्धानैकांतिकादिदोषरहितादतो हेतोर्भवत्येव नष्टमुष्ट्याद्युपदेशस्य कर्तृमत्वप्रसिद्धिरिति नासिद्धं कस्यचिन्नष्टमुष्ट्याद्युपदेशकरणमिति ॥ यदप्युक्तं अपक्षधर्मश्चायं हेतुः सूक्ष्माद्यर्थे धर्मिणि नष्टे मुष्ट्याद्युपदेशकरणाभावादिति । तदप्ययुक्तं । अपक्षधर्मस्यापि हेतोर्गमकत्वदर्शनात् । तथाहि - अपक्षधर्मादपि कृत्तिकोदयाद्रोहिण्युदयस्य चंद्रोदयात्समुद्रवृद्धेरनुमानं दृश्यते । परैस्तथाऽभ्युप'गमाच्च ॥ तथाचोक्तं नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थितां ॥ नियम्ये गमयत्येव वृत्तां वृष्टिं नियामिकामिति ॥ १ ॥ पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुभा ॥ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ २ ॥ यदप्यन्यदुक्तं अनैकांतिकश्चायं हेतुः । यस्मात्सूक्ष्मादिपदार्थसाक्षात्करणमतरेणाप्यन्वयव्यतिरेकाभ्यां लिंगादुपदेश परंपरातो वा नष्टमुष्ट्यादिकमवगम्योपदेष्टुं शक्नोत्येवेति । तदप्यसमीचीनं । तथाहि - न तावदन्वयव्यतिरेकाभ्यां ग्रहो - परागनष्टमुष्ट्यादयः प्रतिपत्तुं शक्यंत चूतमंजर्यादेर्मधुमास इव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226