Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
वादाभावात् । अपौरुषेयत्वादस्य प्रामाण्ये ज्योतिर्ज्ञानादेरपौरुषेयत्वाभावात् प्रामाण्यं न स्यात् । न ब्रूमोऽपौरुषेयत्वादेव प्रामाण्यं प्रामाण्यमेवापौरुषेयत्वादिति चेत्तर्हि नीलोत्पलादिषु दहनादीनामपौरुषेयाणां न मिथ्याज्ञानहेतुता स्यात् । ज्योतिः - शास्त्रप्रवाहस्य चानादितया प्रामाण्ये वेदेऽपि तथैवास्तु प्रामाण्यं किमपौरुषेयतासाधनायासेन । अन्यत्र कर्तुः श्रवणात्पौरुषेयता युक्ता मात्र कर्तुरश्रवणादिति चेन्न अत्रापि कर्तुः श्रवणात् । तन्मिथ्यात्वमुभयत्रापि समानं । पराभ्युपगमादन्यत्र पौरुषेयत्वमत्रापि किं न स्यात् । तत्प्रवाहस्य चानादित्वे वक्तुरज्ञानवचनाकौशलदुष्टाभिप्रायैः श्रोतुश्च मंदबुद्धित्वविपर्यस्तबुद्धित्वगृहीतविस्मरणैः प्रतिपुरुषं हीयमानस्यानादिकाले निर्मूलोच्छेदः स्यात् । तथाहि इदानीमपि केचि - त्सातिशयं ज्योतिःशास्त्रादिकमवयंतोऽपि दुष्टाभिप्रायतयाऽ न्यस्यानुपदिशतो दृश्यते । अन्ये त्वज्ञानादन्यथोपदिशंतो दृश्यते । अन्ये पुनः स्वयं यथावदवगच्छंतोऽपि वचनाकौशल | दव्यक्तमन्यथा चोपदिशंतो दृश्यते । तथा श्रोतारोऽपि केचिन्मंदबुद्धयो यथावदुक्तमपि नावधारयति । अन्ये तु विपर्यस्तबुद्धयः सम्यगुपदिष्टमन्यथा भावयंति । केचित्पुनः सम्यगवबुद्धमपि विस्मरंतीत्येभिः कारणैः प्रतिपुरुषं हीयमानस्यैतावता कालेन निर्मूलोच्छेद एव स्यात् । भवति च तस्मादंतरांतरा विच्छिन्नः । सूक्ष्मांतरितदूरार्थसाक्षा
For Private And Personal Use Only
१७३
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226