SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः वादाभावात् । अपौरुषेयत्वादस्य प्रामाण्ये ज्योतिर्ज्ञानादेरपौरुषेयत्वाभावात् प्रामाण्यं न स्यात् । न ब्रूमोऽपौरुषेयत्वादेव प्रामाण्यं प्रामाण्यमेवापौरुषेयत्वादिति चेत्तर्हि नीलोत्पलादिषु दहनादीनामपौरुषेयाणां न मिथ्याज्ञानहेतुता स्यात् । ज्योतिः - शास्त्रप्रवाहस्य चानादितया प्रामाण्ये वेदेऽपि तथैवास्तु प्रामाण्यं किमपौरुषेयतासाधनायासेन । अन्यत्र कर्तुः श्रवणात्पौरुषेयता युक्ता मात्र कर्तुरश्रवणादिति चेन्न अत्रापि कर्तुः श्रवणात् । तन्मिथ्यात्वमुभयत्रापि समानं । पराभ्युपगमादन्यत्र पौरुषेयत्वमत्रापि किं न स्यात् । तत्प्रवाहस्य चानादित्वे वक्तुरज्ञानवचनाकौशलदुष्टाभिप्रायैः श्रोतुश्च मंदबुद्धित्वविपर्यस्तबुद्धित्वगृहीतविस्मरणैः प्रतिपुरुषं हीयमानस्यानादिकाले निर्मूलोच्छेदः स्यात् । तथाहि इदानीमपि केचि - त्सातिशयं ज्योतिःशास्त्रादिकमवयंतोऽपि दुष्टाभिप्रायतयाऽ न्यस्यानुपदिशतो दृश्यते । अन्ये त्वज्ञानादन्यथोपदिशंतो दृश्यते । अन्ये पुनः स्वयं यथावदवगच्छंतोऽपि वचनाकौशल | दव्यक्तमन्यथा चोपदिशंतो दृश्यते । तथा श्रोतारोऽपि केचिन्मंदबुद्धयो यथावदुक्तमपि नावधारयति । अन्ये तु विपर्यस्तबुद्धयः सम्यगुपदिष्टमन्यथा भावयंति । केचित्पुनः सम्यगवबुद्धमपि विस्मरंतीत्येभिः कारणैः प्रतिपुरुषं हीयमानस्यैतावता कालेन निर्मूलोच्छेद एव स्यात् । भवति च तस्मादंतरांतरा विच्छिन्नः । सूक्ष्मांतरितदूरार्थसाक्षा For Private And Personal Use Only १७३
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy