________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२ भट्टानन्तकीर्तिप्रणीता ग्रहोपरागादीनां दिक्प्रमाणफलकालादिषु नियमाभावात् । नापि ग्रहोपरागनष्टमुष्ट्यादयो लिंगदर्शनादनुमीयतें तलिंगसंबंधयोर्हि प्राकृतपुरुषदर्शनविषयत्वे अस्मदादीनां धूमादने. रिव ग्रहोपरागनष्टमुष्ट्यादीनां तलिंगादनुपदेशाप्रतीतिः स्यात् । लिंगसंबंधयोरप्यतींद्रियत्वे तयोरुपदेशमंतरेण प्रतिपत्तेरयोगात्तदुपदेष्टुरतींद्रियार्थदर्शित्वं स्यात् । नापि द्रव्याणामन्वयव्यति. रेकाभ्यां संयोगकल्पनामात्रावस्थावयवादिभेदेन शक्तिभेद. शक्यते प्रतिपत्तुं । अन्वव्यतिरेकाभ्यां हि तथा तत्प्रतिपत्तौ यावंति जगति द्रव्याणि तानि सर्वाण्येकत्र मीलयित्वैकस्य कल्ककषायादिकल्पनाभेदेन कर्षादिमात्राभेदेन बालमध्याद्यवस्थाभेदेन मूलपत्राद्यवयवभेदेन प्रक्षेपोद्धाराभ्यामेकोऽपि योगो युगसहस्रेणापि न ज्ञातुं पार्यते किमुतानेक इति । नाप्ययं नष्टमुष्ट्याद्युपदेशोऽप्यनादिः उपदेशपरंपरयाऽतींद्रियज्ञातुरभावेऽपि प्रमाणभूतः प्रबंधेनानुवर्तते इति युक्तं । तथाऽभ्युपगमे हि चैत्यवंदनाद्युपदेशोऽपि प्रबंधेनैवमनुवर्तमानः प्रमाणभूतो भवता किं नानुमन्यते । तदनुसारिभिरेवासावतींद्रियज्ञानपूर्व कत्वेनाभ्युपगतः तज्ज्ञानस्य चाभावादुपदेशपरंपरापाश्चानभ्युपगमान्न प्रमाणमिति चेत्कि पराभ्युपगमो भवतः प्रमाणं ? अन्यथा नष्टमुष्ट्यादिप्रतिपादकागमोऽपि न प्रमाणं । तस्यापि तैरेव तथाभ्युपगमात् । अविसंवादित्वादन्यस्य प्रामाण्यं नान्यस्याविसंवादाभावादिति चेन्न तर्हि वेदः प्रमाणमविसं
For Private And Personal Use Only