Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 205
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ भट्टानन्तकीर्तिप्रणीता हादात्मानं दुःखितं समारोप्य सुखं नास्ते । तेनैव श्रुतवता तस्यैव मिथ्याध्यारोपस्य हानार्थं यत्नोऽसत्यपि मोक्तरि कस्मिॉश्चदात्माऽधिक इति । तदेवं स्थिरादिरूपस्य जीवस्याभावेऽपि बंधमोक्षयोस्तदर्थ वा प्रवृत्तेरुपपत्तेः हेयोपादेयतत्त्वाभिधायके सूत्रे न किंचिज्जीवतत्त्वाभिधानेनेति । एतत्सर्वमयुक्तं तथाहि --- यत्तावदुक्तं सास्रवचित्तसंतानस्य प्रवृत्तिः संसार इत्यत्र तावदावयोरविप्रतिपत्तिः । केवलं स चित्तसंतानः सान्वयो निरन्वयो वेत्यत्र विप्रतिपत्तिः । तत्र सान्वयस्य चित्तसंतानस्य प्रवृत्तिः संसार इति वयं ब्रूमः । तत्राभिसंधिव्यापारफलानामेकाधिकरणत्वोपपत्तेः । निरन्वये तु चित्तसंताने यस्याभिसंधिर्न तस्य व्यापारो यस्य व्यापारो न तस्य फलमित्यभिसंधिव्यापारतत्फलानामेकाधिकरणत्वानुपपत्तेर्न संसारः । तथा चोक्तं हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् ॥ बध्यते तव्योपेतं चित्तं बद्धं न मुच्यते इति ॥ १ ॥ यच्चाभिहितं निरन्वयविनश्वरचित्तक्षणेप्वेकत्वाध्यारोपेणात्माभिनिवेशादात्मप्रेमानुगतः स्कंधसंतानः सांसारिकसुखसाधनेषु प्रवर्तमानः सास्रवचित्तसंतानं संतनोतीति तदप्ययुक्तं । असत्यात्मन्येकत्वप्रत्ययस्यैवानुपपत्तेः । ननूक्तमात्मन्यसत्यप्यध्यापरोपितैकत्वविषयः प्रत्ययः प्रादुर्भवतीति । सत्यमुक्तं किन्त्वयुक्तमुक्तं । स्वात्मन्यनुमानात्मणिकत्वं निश्चिन्वतः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226