Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ भट्टानन्तकीर्तिप्रणीता दिकं परित्यज्य पेयादावारोग्यसाधने प्रवर्तते । तथाच कस्यचिद्विदुषः सुभाषितं तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते ॥ हितमेवानुरुध्यंते प्रपरीक्ष्य परीक्षकाः ॥१॥ स्यादेतत् पथ्यापथ्ययोरारोग्यसाधनत्वेन दृष्टत्वादपथ्यपरिहारेण पथ्योपादानं युक्तं । सांसारिकसुखपरित्यागेन तु मुक्तिसाधने प्रवृत्तिरयुक्ता । मुक्तिसाधनत्वेन कस्यचिदप्यनिश्चितत्वात् । तथाहि- न तावत्प्रत्यक्षेणानुमानेन वा कस्यचिन्मुक्तिसाधनत्वमवसितं अतींद्रियत्वात् । तत्प्रतिबद्धलिंगाभावाच्च । नाप्यागमेन तत्प्रामाण्यस्यानिश्चितत्वात् । तदेवं प्रमाणबलादात्यंतिकसुखसाधनमपश्यन्नात्मस्नेहाद्यथालाभं दुःखानुषक्तसुखसाधनेष्वेव प्रवर्तते । यथा कश्चिक्षुदुःखपीडितो विशिष्टमन्नमलभमानः क्षुदुःखाद्वरं मरणमिति मन्यमानः सविषमप्यन्नं भुक्ते। यथा वा गणिकया सह संगतिमलभमानाः कामिनस्तिर्यग्गतानपि कामयंते । तथाचोक्तं-- विशिष्टसुखसंगात्स्यात्तद्विरुद्धे विरागता ॥ किंचित्परित्यजेत्सौख्यं विशिष्टसुखतृष्णया ॥१॥ नैरात्म्ये तु यथालाभमात्मस्नेहात्प्रवर्तते । अलाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामितेति ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226