Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६८
भट्टानन्तकीर्तिप्रणीता
1
अभीष्टत्वाद्देशकालात्मज्ञानानामनवयवेनाव्यापकस्यासंर्वदर्शिप्रत्यक्षस्य सर्वदा सर्वत्र सर्वज्ञाभावज्ञानमयुक्तं । तथा ज्ञाने सर्वज्ञसिद्धिप्रसंगात् । न च प्रत्यक्षमभावविषयं उक्तदोषात् । नापि चोदनातः सर्वज्ञाभावसिद्धिः । पुरुषमात्रस्याभावासिद्धौ अन्ययोगव्यवच्छेदेन प्रामाण्यनिवृत्तेरनिश्चयान्न चोदनातः सर्वज्ञाभावसिद्धिः । तदसिद्धौ च न पुरुषमात्रस्याभावसिद्धिरितीतरेतराश्रयत्वप्रसंगात् । अप्रामाण्यनिवृत्त्यन्यथानुपपत्त्या पुंसोऽप्रमाण्यकारकस्यातींद्रियज्ञानविकलस्याभावसिद्धेरन्यस्य वीतरागसर्वज्ञस्य भावेऽपि तद्गुग़ैरपकृष्टत्वाद्दोषाणामस्त्येवाप्रमाण्यनिवृत्तिः सर्वज्ञनिवृत्त्यनिश्चये ऽपि चोदनातः कथमितरेतराश्रयदोषः स्यादिति चेदेवमप्रामाण्यनिवृत्तिः प्रत्यागमेऽपि किं न स्यात् । अप्रामाण्यनिवृत्त्यसिद्धेरिति चेदत्र कुतस्तदभावसिद्धिः । दोषाश्रयपुरुषस्याभावादिति चेदितरेतराश्रयत्वं । दप्रामाण्याभावसिद्धिश्चेत्प्रत्यागमेऽपि किं न स्यात् । तथा प्रामाण्या भावसिद्धौ च प्रत्यागमस्य सर्वज्ञसद्भावावबोधकस्यावबोधकत्वेन चोदनावत्प्रामाण्याच्चोदनातः सर्वज्ञाभावसिद्धेः सप्रतिबंधकः स्यात् । तस्माच्चोदनातः सर्वज्ञाभावसिद्धिमिच्छताऽन्ययोगव्यवच्छेदेनाप्रामाण्यनिवृत्तिः साधनीया । तत्सिद्धिरपि सर्वज्ञाभावसिध्द्या पुरुषमात्राभावसिद्धौ स्यादिति कथमितरेतराश्रयदोषो न स्यादिति । अस्तु वाऽन्ययो
अभावप्रमाणा
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226