SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ भट्टानन्तकीर्तिप्रणीता 1 अभीष्टत्वाद्देशकालात्मज्ञानानामनवयवेनाव्यापकस्यासंर्वदर्शिप्रत्यक्षस्य सर्वदा सर्वत्र सर्वज्ञाभावज्ञानमयुक्तं । तथा ज्ञाने सर्वज्ञसिद्धिप्रसंगात् । न च प्रत्यक्षमभावविषयं उक्तदोषात् । नापि चोदनातः सर्वज्ञाभावसिद्धिः । पुरुषमात्रस्याभावासिद्धौ अन्ययोगव्यवच्छेदेन प्रामाण्यनिवृत्तेरनिश्चयान्न चोदनातः सर्वज्ञाभावसिद्धिः । तदसिद्धौ च न पुरुषमात्रस्याभावसिद्धिरितीतरेतराश्रयत्वप्रसंगात् । अप्रामाण्यनिवृत्त्यन्यथानुपपत्त्या पुंसोऽप्रमाण्यकारकस्यातींद्रियज्ञानविकलस्याभावसिद्धेरन्यस्य वीतरागसर्वज्ञस्य भावेऽपि तद्गुग़ैरपकृष्टत्वाद्दोषाणामस्त्येवाप्रमाण्यनिवृत्तिः सर्वज्ञनिवृत्त्यनिश्चये ऽपि चोदनातः कथमितरेतराश्रयदोषः स्यादिति चेदेवमप्रामाण्यनिवृत्तिः प्रत्यागमेऽपि किं न स्यात् । अप्रामाण्यनिवृत्त्यसिद्धेरिति चेदत्र कुतस्तदभावसिद्धिः । दोषाश्रयपुरुषस्याभावादिति चेदितरेतराश्रयत्वं । दप्रामाण्याभावसिद्धिश्चेत्प्रत्यागमेऽपि किं न स्यात् । तथा प्रामाण्या भावसिद्धौ च प्रत्यागमस्य सर्वज्ञसद्भावावबोधकस्यावबोधकत्वेन चोदनावत्प्रामाण्याच्चोदनातः सर्वज्ञाभावसिद्धेः सप्रतिबंधकः स्यात् । तस्माच्चोदनातः सर्वज्ञाभावसिद्धिमिच्छताऽन्ययोगव्यवच्छेदेनाप्रामाण्यनिवृत्तिः साधनीया । तत्सिद्धिरपि सर्वज्ञाभावसिध्द्या पुरुषमात्राभावसिद्धौ स्यादिति कथमितरेतराश्रयदोषो न स्यादिति । अस्तु वाऽन्ययो अभावप्रमाणा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy