________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञ सिद्धिः
१६९
न
गव्यवच्छेदेन श्रुतेरप्रामाण्याभावनियमस्तथापि न चोदनातः सर्वज्ञाभावसिद्धिः । कार्यार्थे वेदस्य प्रामाण्यादन्यत्र प्रामाण्यानभ्युपगमात् । सर्वज्ञभावप्रतिपादिकैव श्रुतिः श्रूयते— अपाणिपादो जवनोऽग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ॥ स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांतमिति ॥ १॥ तस्मान्न श्रुतेः सर्वज्ञाभावसिद्धिः ॥ नाप्यर्थापत्तितः । सर्वI ज्ञाभावमंतरेण कस्यचिदनुपपद्यमानस्यार्थस्याभावात् । पुरुषवक्तृत्वादयः सर्वज्ञाभावमंतरेण नोपपद्यते । वक्तृत्वादीनां सर्वज्ञत्वेन सहानवस्थानलक्षणस्य परस्परपरिहारस्थितिलक्षणस्य वा विरोधस्यासिद्धेः । न ह्यविकले कारणस्य सर्वज्ञत्वस्य वक्तृत्वादेरभावः पुरुषत्वादेर्वा सर्वज्ञत्वसद्भावेऽभावः प्रतीयते । येन तयोः सहानवस्थानलक्षणो विरोधः स्यात् । नापि सर्वज्ञत्वाभावरूपं वक्तृत्वादिकं वक्तृत्वाद्यभावरूपं वा सर्वज्ञत्वं येन तयोः परस्परपरिहारस्थितिलक्षणो विरोधः परिकल्प्यते । तदेवं वक्तृत्वादेः सर्वज्ञत्वेन विरोधद्वयस्याप्यसिद्धेः सर्वज्ञाभावमंतरेणानुपपत्तेरभावात् नार्थापत्तेः सर्वज्ञाभावप्रतिपादकत्वं । नाप्यनुमानोपमानाभावप्रमाणानां सर्वज्ञाभावबोधकत्वं । प्रागेव तेषां निरस्तत्वात् । तदेवं सर्वज्ञाभावस्यासिद्धेरतींद्रियार्थज्ञातुरभावादन्यस्यापि सर्वज्ञवादिभिरनिष्टेः सिद्ध एव सर्वथा पुरुषाभाव इत्येतदयुक्तं । तस्मान्नष्टमुष्ट्याद्युपदेशस्या पौरुषेयत्वमसिद्धं पौरुषेयत्वं तु सिद्धं । तथाहि - ये दृष्टकर्तृकसमानजातीयास्ते
1
For Private And Personal Use Only