________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७० भट्टानन्तकीर्तिप्रणीता कर्तृमंतो यथा दृष्टकर्तृकप्रासादादिसमानजातीया जीर्णप्रासादादयः । दृष्टकर्तृवाक्यसमानजातीयश्च वेदांतर्गतो नष्टमुष्ट्याधुपदेश इति नायमसिद्धो हेतुः । नष्टमुष्ट्याद्युपदेशे दृष्टकर्तृकवाक्यासंभविनो विशेषस्यादर्शनात् । ननूपलभ्यत एव दृष्टकर्तृकवाक्यासंमविसूक्ष्माद्यर्थप्रतिपादनलक्षणविशेषस्तत्रेति चेन्न इत्थंभूतस्य विशेषस्य सतोऽपि कर्तृमात्रानिषेधकत्वात् । यथाभूतो हि विशेषः कर्तुमात्रं निरस्यति तथाभूतस्य विशेषस्याभावात् दृष्टकर्तृकसमानजातीयत्वमुच्यते । न सर्वथा भावात् । समानजातीयस्य कस्यचिदप्यभावात्सूक्ष्माद्यर्थप्रतिपादनलक्षणो विशेषश्च सातिशयप्रासादादिविशेष इव न कर्तृमात्रं निरस्यति । किं तु अकुशलशिल्पिनमिव सूक्ष्माद्यर्थविषयपरिज्ञानशून्यं कर्तृविशेषं । स चास्माभिरपि नेष्यते एव । यश्चेप्यते सूक्ष्मांतरितदूरार्थसाक्षात्कारी कर्तृविशेषः स नानेन निराक्रियते । ननु सूक्ष्मादावर्थ पुरुषस्य दर्शनशक्त्यभावात् पुरुषमात्रमयं विशेषो निराकरोतीति चेत् स्यादेवं यदि पुरुषस्यातीद्रियार्थदर्शनशक्त्यभावः कुतश्चिन्निश्चितः स्यात् । यावता नैवं सर्वज्ञाभावग्राहकस्य प्रमाणस्य प्रागेव निरस्तत्वात् । तस्मात्पुरुषमात्रनिषेधकस्य विशेषस्याभावान्नासिद्धं दृष्टकर्तृकसमानजातीयत्वं । नाप्यनैकांतिकं अदृष्टकर्तृके दृष्टकर्तृकसजातीयत्वस्य दर्शनात् । अदृष्टमपि तत्तत्र विरोधाभावात् संभाव्यत इति चेदकर्तृकेऽपि दृष्टकर्तृकसजातीयत्वस्य संभवेन
For Private And Personal Use Only