SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १६७ श्रयपुरुष सद्भावशंकया नाप्रामाण्याभावनिश्चयः स्यादितीतरेतराश्रयत्वान्न शब्दादपि तत्सिद्धिः । न च तदभावप्रतिपादकं वेदवाक्यमस्ति । नापि विधिवाक्यादन्यस्य मीमांसकैः ः प्रामाण्यमिष्यते यतस्तस्य कल्पना स्यात् । न प्रामाण्यलक्षणोऽर्थः पौरुषेयत्वाभावमंतरेण नोपपद्यते । तथाविधस्यावबोधकत्वलक्षणस्य प्रामाण्यस्यागमांतरेऽभावात् । दोषाश्रयपुरुषसद्भावान्न तथाविधप्रामाण्यमन्यत्रेति चेदत्र पुरुषाभावः कुतोऽवसितः ? अन्यतश्चेत्तदेवोच्यतां किमनेन सिद्धोपस्थायिना । प्रामाण्यादन्यथाऽनुपपत्तेरिति चेच्चक्रकप्रसंगः । नाप्रामाण्यलक्षणोऽर्थः पौरुषेयत्वाभावमंतरेण नोपपद्यते प्रागुतदोषानतिवृत्तेः । न च प्रामाण्याभावात्पुरुषस्याभावसिद्धिर्युक्ता धूमाभावादग्न्यभाववत् । कार्याभावस्य कारणाभावव्यभिचारात् । अन्यथानुपपत्तेरभावादप्रतिबद्धसामर्थ्यस्य पुंसोऽप्रामाण्यकारणस्याभावसाधनेऽपि न सर्वथा पुरुषस्याभावसिद्धिः । अप्रामाण्याजनकस्य पुरुषस्यानिराकरणात् । इष्टसिद्धिश्वाप्रामाण्यकारणस्यातींद्रियज्ञानविकलस्य पुंसो ज्योतिःशास्त्रादौ भवता वेदरूपतयाऽभिमतेऽस्माभिरनिष्टत्वात् । नन्वतींद्रियज्ञातुरभावादन्यस्याप्यनिष्टेः सिद्ध एव सर्वथा पुरुषाभावः । कथं पुनरतींद्रियार्थवेदिनो भवता विभावितोऽभावः । न तावत्प्रत्यक्षेण प्रत्यक्षस्यात्यक्षेऽनक्षज्ञानवति भावाभावविवेचनसामर्थ्याभावात् । भावे वा नास्मिन्देशकालेऽभावसाधनं घटते । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy