SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भट्टानन्तकीर्तिप्रणीता Acharya Shri Kailassagarsuri Gyanmandir १६६ स्यात् । कर्तुरस्मरणस्यागमांतरेऽपि प्रसंगात् । कर्तुरस्मरणनिमित्तानुपलब्धेर्भावात् । परैः कर्तुरागमांतरे स्मरणान्न वादिनोऽपि तत्रास्मरणमिति चेन्न । परकीयस्मरणस्याप्रमाणत्वात् । प्रमाणत्वे ज्योतिर्ज्ञानाद्युपदेशेऽपि वादिनोऽस्मरणं न स्यात् । परैस्तत्रापि कर्तुः स्मरणात् । कर्तुरभावादस्मरणं चेत् किं प्रमाणांतरादेतस्मादेवानुमानात्तदभावसिद्धिः । प्रमाणांतरात्तदभावसिद्धावस्यानुमानस्य वैयर्थ्यं । न च प्रमाणांतरं तदभावग्राहकमस्ति । अस्मादेवानुमानात्तदभावसिद्धिश्चेत्कथं तदभावसिद्धौ कर्त्रस्मरणस्य कर्त्रभावपूर्वकत्वसिद्धिः । येन कर्तभावपूर्वकत्वेन निश्चितात्कर्त्रस्मरणात्तदभावसिद्धिः स्यात् । इतरेतराश्रयदोषः कथं न स्यात् । कर्त्रभावपूर्वकत्वेनानिश्चितात्कर्त्रस्मरणमात्रादेव तदभावसिद्धेर्न परस्पराश्रयदोषानुषंग इति चेन्न । तथाविधस्यास्मरणस्यासति कर्तरि पर्वतादौ सत्यपि कर्तरि स्वयमपन्हुतात्मकत्वे कथमप्यशक्यानिष्टागमने वचनरचनाविशेषेऽपि सद्भावेन संशयहेतुत्वात्मतिवादिनोऽपि कर्त्रस्मरणं तत्रासिद्धं नापौरुषेयत्वसाधनायालं । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिति । अनेन सर्वस्य कर्तुरस्मरणं प्रत्याख्यातं । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्त्रस्मरणमवैति । शब्दाद्धि पौरुषेयत्वादन्यस्य पौरुषेयत्वाभावस्य सिद्धिरप्रामाण्याभावनिश्चये सति स्यात् । तनिश्चयोऽपि शब्दात्तदभावसिद्धौ स्यात् । अन्यथा दोषा For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy