________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः १६५ प्रतिवादिनोऽभावज्ञानाभावो ज्योतिर्ज्ञानाद्युपदेशेऽपि समानः । वादिनोऽभावज्ञानाभावात्तदभावस्याभावसिद्धौ प्रतिवादिनो ज्योतिर्ज्ञानाद्युपदेशस्याभावज्ञानाभावात् पौरुषेयत्वाभावो न स्यात् । तयोर्विशेषाभावात् । पिटकत्रये वादिप्रतिवादिनोरुभयोरपि अभावज्ञानाभावात्तदभावस्याभावसिद्धियुज्यते । न ज्योतिर्ज्ञानाद्युपदेशे विगानात् । प्रतिवादिनोऽभावज्ञानाभावे ऽपि वादिनो भावादिति चेन्न । वादिनो यदभावज्ञानं तच्छ्रद्धानुसारिणः सांकेतिकं नाभावबलोपजातं पिटकत्रये प्रतिवादिनोऽप्रामाण्याभावज्ञानवत् । अन्यथाऽगृहीतसमवायस्याप्यभावज्ञानोत्पत्तिः स्यात् । सांकेतिकाच्चाभावज्ञानान्नाभावसिद्धिः । अन्यत्रापि ततोऽप्रामाण्याभावसिद्धिप्रसंगात् ॥ एतेन
प्रमाणपंचकं यत्र वस्तुरूपे न जायते ॥
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥१॥ इत्येतत्प्रतिव्यूढं । चैत्यवंदनादिवाक्येऽपि पुरुषसत्तावबोधकप्रमाणपंचकाप्रवृत्तेरभावप्रमाणप्रसंगात् । ततस्तदन्यज्ञानलक्षणादप्यभावप्रमाणान्न पौरुषेयत्वादन्यस्य पौरुषेयत्वाभावस्य सिद्धिः । नापि कर्तुरस्मरणादिहेतुभ्यः । कर्तुरस्मरणं वादिनः प्रतिवादिनः सर्वस्य वा तत्साधनं स्यात् । वादिनोऽपि तत्कतुरभावादनुपलब्धेर्वा स्यात् । अनुपलब्धेश्चत्तदनैकांतिकं
For Private And Personal Use Only