________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ भट्टानन्तकीर्तिप्रणीता रुषेयत्वविषयप्रत्यक्षादिप्रमाणपंचकनिर्मुक्तादात्मन इति चेत्तर्हि पिटकत्रयेऽपि तदभावज्ञानोत्पत्तिः किं न स्यात् । तदुत्पत्तिकारणस्यानंतरोक्तस्याविशेषात् । पौरुषेयत्वाभावोऽपि तद्धेतुस्तदभावान्न पिटकत्रये तदभावज्ञानोत्पत्तिरिति चेन्न पौरुषेयत्वाभावस्य ह्यभावो नाम पौरुषेयत्वसद्धावस्तस्य प्रत्यक्षादीनामन्यतमेनाप्यनिश्चये कथं पौरुषेयत्वाभावस्याभावगतिरभावज्ञानाभावात् । पौरुषेयत्वाभावस्याभावस्याभावनिश्चयो न पौरुषेयत्वसद्भावगतेरिति चेन्न । अभावज्ञानं हि नाम पौरुषेयत्वाभावकार्य तदभावात्कथं कारणाभावगतिर्व्यभिचारात् । अप्रतिबद्धसामर्थ्यस्य पोरुषेयत्वाभावस्याभावसाधनेऽपि न सर्वथा पौरुषेयत्वाभावस्याभावसिद्धिः प्रतिबद्धसामर्थ्यस्याभावासाधनात् कथं हि तर्हि देशादौ कचिद्घटादिज्ञानाभावात् घटाद्यभावसिद्धिर्भवतोऽपीति चेन्निषेध्यघटायेकज्ञानसंसर्गिकेवलभूतलाधुपलंभादिति ब्रूमः । नैवमत्र पौरुषेयत्वाभावस्याभावसिद्धिः । एकज्ञानसंसर्गिण एव कस्यचिदभावात् । न पौरुषेयत्वसद्भावस्तदेकज्ञानसंसर्गी भावाभावयोः परस्परपरिहारस्थितिलक्षणयोरेकत्रैकदा एकज्ञानसंसर्गविरोधात् । अविरोधेऽपि न पौरुषेयत्वसद्भावोपलंभात्तदभावस्याभावसिद्धिस्तदुपलंभस्यैवाभावात् । एतेन विरुद्धोपब्ध्या तदभावस्याभावसिद्धिर्निरस्ता । कस्य वाऽभावज्ञानाभावात्तदभावस्थाभावगतिः । किं सर्वस्य वादिनः प्रतिवादिनो वा । तत्र सर्वस्याभावज्ञानाभावोऽसिद्धः ।
For Private And Personal Use Only