SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १६३ 'सद्भावात् । न हि पिटकत्रयेऽपि प्रत्यक्षानुमानोपमानार्थापत्तिशब्दैः कर्तृपुरुषसद्भावः प्रतीयते । ततो नष्टमुष्ट्याद्युपदेशवत् पिटकत्रयेऽपि पौरुषेयत्वाभावसिद्धिः स्यात् । परैः पिटकत्रये पुरुषसद्भावाभ्युपगमात् । प्रमाणपंचकरूपतयाऽऽत्मनोऽपरिणामस्याभावप्रमाणाख्यस्यासाधकत्वमिति चेन्न पराभ्युपगमस्य भवतोऽप्रमाणत्वात् । प्रमाणत्वे ज्योतिर्ज्ञानाद्युपदेशेऽपि तैरेव पुरुषसद्भावाभ्युपगमादस्तु पौरुषेयत्वसिद्धिः। अन्यथाऽन्यत्रापि माभूदविशेषात् । आगमांतरे च परैः पुरुषसद्भावाभ्युपगमात् । अभावप्रमाणस्यासाधकत्वे ज्योतिर्ज्ञानाद्युपदेशेऽप्यसाधकत्वमस्तु । लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यात् इति सर्वत्रानाश्वासात् । तस्मान्निषेध्यविषयप्रमाणपंचकरूपतयाऽऽ त्मनोऽपरिणामादभावप्रमाणाभिधानादपौरुषेयत्वाभावसिद्धिः ॥ पर्युदासपक्षेऽपि किमन्यत्पौरुषेयत्वाद्यदपौरुषेयत्वाभिधानं प्रत्यक्षसिद्धं स्यात् । न तत्सत्त्वादिकं ततस्तत्सिद्धेरस्माभिरपीष्टत्वात् । तदनादिसत्त्वमिति चेत्स एव दोषोऽनादिकालस्यादर्शनेनादिसत्त्वस्य दर्शनायोगादिति समयादर्शिनोऽपि वा तदर्शनप्रसंगः । पौरुषेयत्वादन्यस्तदभाव इति चेत्तर्हि न तस्य प्रत्यक्षेण ग्रहणं युक्तं । अभावप्रमाणवादिभिरमावस्य प्रत्यक्षाद्यविषयत्वाभ्युपगमात् । तदन्यज्ञानलक्षणाभावप्रमाणातदभावसिद्धिश्चेत्तत्पौरुषेयादन्यस्य तदभावस्य ज्ञानं कुतो भवति । न तावदहेतुकं कादाचित्कत्वात् । तत्पौ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy