________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
भट्टानन्तकीर्तिप्रणीता
यदप्युक्तं
असिद्धश्चायं हेतुः । नष्टमुष्ट्याद्युपदेशस्यापौरुषेयस्य करणासंभवात् इति । अत्र नररचितवचनरचनाविशिष्टस्य नष्टमुष्ट्याद्युपदेशस्यापौरुषेयत्वं कुतोऽवसितं येनासिद्धताऽस्य हेतोः स्यात् । न तावत्प्रत्यक्षेणापौरुषेयताऽवसीयते । प्रसज्यप्रतिषेधपक्षे हि पौरुषेयताभावोऽपौरुषेयत्वं । तच्चानादिकालस्यातीतस्याप्रत्यक्षीकरणे तदा न शक्यते साक्षात्कर्तुं । तत्प्रत्यक्षीकरणे स एवातींद्रियदर्शी स्यात् । अधुना तदभावसाधने कुमारसंभवादेरविशेषः कालिदासादेरिदानीमभावात् । प्रत्यक्षस्याभावविषयत्वविरोधात् । अभावानभ्युपगमादभावप्रमाणवैधुर्यप्रसंगश्च । अभावप्रमाणात्तदभावसिद्धिश्चेत्तदभावप्रमाणं प्रत्यक्षाद्यनुत्पत्तिरूपं भवविविधमिष्टं । निषेध्यविषयप्रमाणपंचकरूपतयाऽऽत्मनो परिणामो निषेध्यादन्यद्वस्तुविज्ञानं वेति । तथाचोक्तं
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इप्यते ।
साऽऽत्मनो परिणामो वा विज्ञानं वाऽन्यवस्तुनि इति १ तत्र सर्वात्मनां न मुष्ट्याधुपदेशविषये तत्प्रणेतृपुरुषाय प्रमाणपंचकरूपत्वेनापरिणामोऽसिद्धो नाभावसाधनायालं । पुरुषस्य भावतस्तथाविधः परिणामो व्यभिचारी । पिटकविषयेऽपि तत्प्रणेतृविषयप्रमाणपंचकरूपत्वेनापरिणामस्य भवत्संबंधिनः
For Private And Personal Use Only