SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः यदि सर्वगतादन्यः शब्दो धर्मी समाश्रितः ॥ तदाऽनिष्टानुषंगः स्यात्तत्सर्वगतवादिनः ॥ २ ॥ सर्वगतो यस्त्वभिप्रेतोऽनर्थेन वाऽपि सः ॥(?) विज्ञायते यतः पक्षः साध्यत्वेनेप्सितो भवेत् ॥ ३ ॥ यस्त्वीप्सिततमं पक्षं विशिष्यात्तस्य संज्ञया ॥ शब्दः सर्वगतो नित्योऽकृतकत्वाद्यथा वियत् ॥ ४ ॥ तत्र नैवंविशिष्टोऽपि पूर्वस्मादेष भिद्यते ॥ तत्र हेतोरसामर्थ्यादन्यत्राप्यविशेषतः ॥ ५॥ स्वशक्त्या हि यदा हेतुर्दृष्टांतानुग्रहेण वा ॥ पक्षांतरेऽपि तुल्यः स्यात्तदा काऽस्य विशिष्टता ६ शब्दोऽसर्वगतोऽनित्यो कृतकत्वाद्भवेद्यदा ॥ तदाऽकिंचित्करो हेतुरिष्टस्यैवाप्रसाधनादिति ॥ ७ ॥ यद्यविवक्षितसर्वगतासर्वगतत्वविशेषस्य शब्दमात्रस्य नित्यत्वं प्रसाध्यते तर्यविवक्षितार्हदनर्हद्विशेषस्य पुरुषमात्रस्य सूक्ष्मादिप्रत्यक्षत्वं प्रसाध्यते इति समः समाधिरिति ॥ यदप्यन्यदुक्तं -- यदि पुरुषसामान्यस्य सूक्ष्मादिविषयं प्रत्यक्ष प्रसाध्यते तदा कथं पुरुषविशेषस्याहतो वचनं प्रमाणं स्यात् । यतस्ततो निःश्रेयसार्थिनः प्रवर्तेरन्नित्यादि। तत्राप्युत्तरमुत्तरत्र वक्ष्यामः । तस्माद्यथोक्तदोषरहितत्वादनवद्येयं प्रतिज्ञेति स्थितं ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy