Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भट्टानन्तकीर्तिप्रणीता
Acharya Shri Kailassagarsuri Gyanmandir
१६६
स्यात् । कर्तुरस्मरणस्यागमांतरेऽपि प्रसंगात् । कर्तुरस्मरणनिमित्तानुपलब्धेर्भावात् । परैः कर्तुरागमांतरे स्मरणान्न वादिनोऽपि तत्रास्मरणमिति चेन्न । परकीयस्मरणस्याप्रमाणत्वात् । प्रमाणत्वे ज्योतिर्ज्ञानाद्युपदेशेऽपि वादिनोऽस्मरणं न स्यात् । परैस्तत्रापि कर्तुः स्मरणात् । कर्तुरभावादस्मरणं चेत् किं प्रमाणांतरादेतस्मादेवानुमानात्तदभावसिद्धिः । प्रमाणांतरात्तदभावसिद्धावस्यानुमानस्य वैयर्थ्यं । न च प्रमाणांतरं तदभावग्राहकमस्ति । अस्मादेवानुमानात्तदभावसिद्धिश्चेत्कथं तदभावसिद्धौ कर्त्रस्मरणस्य कर्त्रभावपूर्वकत्वसिद्धिः । येन कर्तभावपूर्वकत्वेन निश्चितात्कर्त्रस्मरणात्तदभावसिद्धिः स्यात् । इतरेतराश्रयदोषः कथं न स्यात् । कर्त्रभावपूर्वकत्वेनानिश्चितात्कर्त्रस्मरणमात्रादेव तदभावसिद्धेर्न परस्पराश्रयदोषानुषंग इति चेन्न । तथाविधस्यास्मरणस्यासति कर्तरि पर्वतादौ सत्यपि कर्तरि स्वयमपन्हुतात्मकत्वे कथमप्यशक्यानिष्टागमने वचनरचनाविशेषेऽपि सद्भावेन संशयहेतुत्वात्मतिवादिनोऽपि कर्त्रस्मरणं तत्रासिद्धं नापौरुषेयत्वसाधनायालं । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिति । अनेन सर्वस्य कर्तुरस्मरणं प्रत्याख्यातं । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्त्रस्मरणमवैति । शब्दाद्धि पौरुषेयत्वादन्यस्य पौरुषेयत्वाभावस्य सिद्धिरप्रामाण्याभावनिश्चये सति स्यात् । तनिश्चयोऽपि शब्दात्तदभावसिद्धौ स्यात् । अन्यथा दोषा
For Private And Personal Use Only
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226