Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १६५ प्रतिवादिनोऽभावज्ञानाभावो ज्योतिर्ज्ञानाद्युपदेशेऽपि समानः । वादिनोऽभावज्ञानाभावात्तदभावस्याभावसिद्धौ प्रतिवादिनो ज्योतिर्ज्ञानाद्युपदेशस्याभावज्ञानाभावात् पौरुषेयत्वाभावो न स्यात् । तयोर्विशेषाभावात् । पिटकत्रये वादिप्रतिवादिनोरुभयोरपि अभावज्ञानाभावात्तदभावस्याभावसिद्धियुज्यते । न ज्योतिर्ज्ञानाद्युपदेशे विगानात् । प्रतिवादिनोऽभावज्ञानाभावे ऽपि वादिनो भावादिति चेन्न । वादिनो यदभावज्ञानं तच्छ्रद्धानुसारिणः सांकेतिकं नाभावबलोपजातं पिटकत्रये प्रतिवादिनोऽप्रामाण्याभावज्ञानवत् । अन्यथाऽगृहीतसमवायस्याप्यभावज्ञानोत्पत्तिः स्यात् । सांकेतिकाच्चाभावज्ञानान्नाभावसिद्धिः । अन्यत्रापि ततोऽप्रामाण्याभावसिद्धिप्रसंगात् ॥ एतेन प्रमाणपंचकं यत्र वस्तुरूपे न जायते ॥ वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥१॥ इत्येतत्प्रतिव्यूढं । चैत्यवंदनादिवाक्येऽपि पुरुषसत्तावबोधकप्रमाणपंचकाप्रवृत्तेरभावप्रमाणप्रसंगात् । ततस्तदन्यज्ञानलक्षणादप्यभावप्रमाणान्न पौरुषेयत्वादन्यस्य पौरुषेयत्वाभावस्य सिद्धिः । नापि कर्तुरस्मरणादिहेतुभ्यः । कर्तुरस्मरणं वादिनः प्रतिवादिनः सर्वस्य वा तत्साधनं स्यात् । वादिनोऽपि तत्कतुरभावादनुपलब्धेर्वा स्यात् । अनुपलब्धेश्चत्तदनैकांतिकं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226