Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः
१६३ 'सद्भावात् । न हि पिटकत्रयेऽपि प्रत्यक्षानुमानोपमानार्थापत्तिशब्दैः कर्तृपुरुषसद्भावः प्रतीयते । ततो नष्टमुष्ट्याद्युपदेशवत् पिटकत्रयेऽपि पौरुषेयत्वाभावसिद्धिः स्यात् । परैः पिटकत्रये पुरुषसद्भावाभ्युपगमात् । प्रमाणपंचकरूपतयाऽऽत्मनोऽपरिणामस्याभावप्रमाणाख्यस्यासाधकत्वमिति चेन्न पराभ्युपगमस्य भवतोऽप्रमाणत्वात् । प्रमाणत्वे ज्योतिर्ज्ञानाद्युपदेशेऽपि तैरेव पुरुषसद्भावाभ्युपगमादस्तु पौरुषेयत्वसिद्धिः। अन्यथाऽन्यत्रापि माभूदविशेषात् । आगमांतरे च परैः पुरुषसद्भावाभ्युपगमात् । अभावप्रमाणस्यासाधकत्वे ज्योतिर्ज्ञानाद्युपदेशेऽप्यसाधकत्वमस्तु । लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यात् इति सर्वत्रानाश्वासात् । तस्मान्निषेध्यविषयप्रमाणपंचकरूपतयाऽऽ त्मनोऽपरिणामादभावप्रमाणाभिधानादपौरुषेयत्वाभावसिद्धिः ॥ पर्युदासपक्षेऽपि किमन्यत्पौरुषेयत्वाद्यदपौरुषेयत्वाभिधानं प्रत्यक्षसिद्धं स्यात् । न तत्सत्त्वादिकं ततस्तत्सिद्धेरस्माभिरपीष्टत्वात् । तदनादिसत्त्वमिति चेत्स एव दोषोऽनादिकालस्यादर्शनेनादिसत्त्वस्य दर्शनायोगादिति समयादर्शिनोऽपि वा तदर्शनप्रसंगः । पौरुषेयत्वादन्यस्तदभाव इति चेत्तर्हि न तस्य प्रत्यक्षेण ग्रहणं युक्तं । अभावप्रमाणवादिभिरमावस्य प्रत्यक्षाद्यविषयत्वाभ्युपगमात् । तदन्यज्ञानलक्षणाभावप्रमाणातदभावसिद्धिश्चेत्तत्पौरुषेयादन्यस्य तदभावस्य ज्ञानं कुतो भवति । न तावदहेतुकं कादाचित्कत्वात् । तत्पौ
For Private And Personal Use Only
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226