Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ भट्टानन्तकीर्तिप्रणीता च न भवति वाक्यं च तत्र प्रमाणमिति । कस्माददर्शनात् । यथा रूपे श्रोत्रमेव प्रमाणं प्रमाणमेव चेति (?) । तदेवमसंबद्धतामाशंक्य भाष्यकारेण प्रतिज्ञाद्वयसमर्थनार्थ भाष्य. द्वयमुपन्यस्तं । तत्र चोदनैव प्रमाणमित्यर्थस्य समर्थनार्थ नान्यत्किंचनेंद्रियमित्युक्तं । चोदना प्रमाणमेवेत्यस्य समर्थनार्थ चोदना हीत्यायुक्तं । अनेन च भाष्येणैतदभिधीयते भूतादिष्वपि संभवति शब्दस्य प्रामाण्यं तद्विषयज्ञानजनकत्वेन । धर्मश्च भूतादीनामेवान्यतमः स्यात् । तस्माद्धर्मे चोदना प्रमाणमेवेत्ययं प्रतिज्ञार्थः संभवतीति । चोदनाशब्देन चात्र शब्दमात्रमभिधीयते न विधायकं वाक्यं । भूतादौ विधायकस्य वाक्यस्यावगमहेतुत्वानुपपत्तेः । यद्यपि विधायकस्य वाक्यस्य प्रामाण्यमत्र प्रतिज्ञातं तथापि यावच्छब्दमात्रस्येंद्रियादिव्युदासेन भूतादौ सामर्थ्य न समर्थ्यते तावच्छन्द्रविशेषस्य भूतादौ सामर्थ्यस्यावसर एव नास्तीति शब्दमात्रस्य भूतादौ सामर्थ्य दर्शितं । तस्मिंश्च दर्शिते शब्दविशेषस्य विधायकस्य धर्मे सामर्थ्य सूत्रोकं समर्थितं भवति । भवतु नामैवं तथापि शब्दमात्रस्यानागते सामर्थ्य दर्शनीयं धर्मे चोदनाप्रामाण्यसाधने तस्यैवोपयोगात् । भूतवर्तमानादौ सामर्थ्य दर्शनीयमनुपयोगादिति चेत् एवमेवैतत् । तथापि शब्दमात्रस्य महाविषयत्वख्यापनेन माहात्म्यख्यापनाच्छब्दविशेषस्यापि माहात्म्यं ख्यापितं भवतीति शब्दमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226