Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० भट्टानन्तकीर्तिप्रणीता तदुपदेशान्मुक्त्यर्थिनो नैव प्रवर्तेरन् । तथाहि ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये ॥ अज्ञोपदेशकरणे विप्रलंभनशंकिभिः ॥ १ ॥ सर्ववस्तुगतं ज्ञानं तस्मादस्य विचार्यतां ॥ अनुष्ठेयार्थविज्ञानमथूणं नान्यथा भवेत् ॥ २ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं । इच्छन् प्रमाणमन्विच्छेच्छश्वद्विश्वस्य वेदकं ॥ ३ ॥ सूक्ष्मांतरितदूरास्तित्त्वमिष्टमशेषतः ॥ . तत्त्वमिष्टमतः पश्यन् सर्वमर्थं प्रपश्यतु ॥ ४ ॥ सोऽयं धर्मकीर्तिरेकधर्मस्याप्यपरिज्ञाने तदंगवैकल्येनासूणविधानायोगादिति समस्तवस्तुविषयविज्ञानं विचार्यमभ्युपगम्य पुनः कतिपयानुष्ठेयार्थविषयमेव ज्ञानं विचार्यमभ्युपगच्छन् विस्मरणशीलो देवानां प्रियः स्वोक्तमपि न स्मरतीत्युपेक्षामर्हति । तस्मान्न प्रतिज्ञार्थोऽनर्थकः । नापि तत्र प्रवर्तमानं साधनमपार्थकमिति स्थितं ॥ यदप्युक्तंसूक्ष्मादयोऽर्थाः कस्यचित्प्रत्यक्षाः इति ज्ञातुरनिर्दिष्टत्वान्यूनः पक्षः स्यादिति । सर्वमनुमानांतरेऽपि वक्तुं शक्यत एव । तथाहि नित्योऽसर्वगतः शब्दः सर्वगो वेति धर्मिणः ॥ विशेषस्यानुपादानात्पक्षो न्यूनत्वमापतेत् ॥ १ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226