Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
भट्टानन्तकीर्तिप्रणीता प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रामन्नतिशेते परान्नरानिति ॥ २ ॥ यथाऽभ्यस्तैकशास्त्रविचारे महतोऽतिशयस्य कस्यचिद्दशनेऽपि न शास्त्रांतरपरिज्ञानेऽतिशयो दृश्यते । न हि व्याकरणमतिशयेन जानन्नपि ज्योतिःशास्त्रमश्रुतमवैति । ज्योतिःशास्त्रं वा सातिशयमवयन्नपि न व्याकरणमनभ्यस्तं जानाति । तथा कस्यचिद्वेदादिज्ञानातिशये सत्याप न स्वर्गापूर्वदेवतादौ विषयांतरे साक्षात्कारि ज्ञानं युक्तं । तदुक्तं
एकशास्त्रविचारे तु दृश्यतेऽतिशयो महान् । न तु शास्त्रांतरज्ञानं तन्मात्रैणैव लभ्यते ॥१॥ ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यति न नक्षत्रतिथिग्रहणनिर्णये ॥ २ ॥ ज्योतिर्विच्च प्रकृष्टोऽपि चंद्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ ३ ॥ तथा वेदेतिहासादिज्ञानातिशयवानपि ।
न स्वर्गदेवतापूर्वप्रत्यक्षीकरणक्षम इति ॥ ४ ॥ तथाच व्याम्नि दशहस्तांतरमभ्यासवशाल्लंघयन्नपि कश्चिन्न योजनशतं योजनसहस्रं लोकांतरं वाऽभ्यासशतैरपि उल्लंघयति । तथा बुद्धाद्यतिशयज्ञानैरभ्यासवशादतिदूरगतैरपि किंचिदवामनागधिकं ज्ञातुं शक्यते न पुनः सर्वे सूक्ष्मांतरितदूरार्था इति । तथाचोक्तं--
For Private And Personal Use Only