Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ 26. कुमारपालदेवचरितम् / द्वैपायन उवाचन विद्यया केवलया तपसा चापि पात्रता। यत्र ज्ञानं क्रिया चोभे तद्धि पात्रं प्रचक्षते // 4 // एवंविधगुणपात्रभक्त्या मुक्तिः इति श्रीहेमचन्द्राचार्यः सर्वदर्शनसंमते निवेदिते सति सर्वधर्मान् श्रीसिद्धराज आरराध / 615. अथ सा मयणल्लादेवी जातिस्मरणात् पूर्वभववृत्तान्ते श्रीसिद्धराजे निवेदिते सति श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हैममयीं पूजां सहादाय बाहुलोडनगरे संप्राप्ता / तत्र पंचकुलेन कार्पटिकेषु कदर्थ्यमानेषु राजदेयविभागस्याप्राप्त्या सवाष्पं पश्चान्निवर्त्यमानेषु श्रीमयणल्लादेवी हृदयादर्शसंक्रान्तबाष्पा स्वयमेव पश्चाद्व्याघुटन्ती अन्तरा अन्तरायीभूतेन श्रीसिद्धराजेन विज्ञपयांचके-'स्वामिनि ! अलममुना संभ्रमेण, कुतो हेतोः पश्चान्निव"य॑ते १-इति राज्ञाऽभिहिते 'यदैव सर्वथा अयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि, नान्यथेति / किंचातःपरमशन-नीरयोश्च नियम'-इति राज्ञा श्रुते पंचकुलमाकार्य तत्पट्टकस्यान्ते द्वासप्ततिलक्षान् उत्पद्यमानान विमृश्य, तं पट्टकं विदार्य मातुः श्रेयसे तं कर मुक्त्वा, तत्करे जलचुलुकं मुञ्चति स्म / तदनु विप्राः पृष्टाः-'करमोक्षे किं फलम् ?' तैरुचे२७. अकरे करकर्ता च गोसहस्रवधः स्मृतः। प्रवृत्तकरविच्छेदे गवां कोटिफलं लभेत् // 1 // इति स्मृतिः / तच्छ्रुत्वा मुदितो राजा / अथ सा श्रीसोमेश्वरं गत्वा तया सुवर्णपूजयाऽभ्यर्च्य तुलापुरुषगजाश्वगोदानादीनि दत्त्वा महादानानि प्रदाय, 'मत्सदृशा काऽपि नाभूत् न भविष्यतीति दध्मिाता निशि निर्भरं प्रसुप्ता / तपखिवेषधारिणा तेनैव देवेन जगदे-'इहैव मदीयदेवकुलमध्ये काचित् कार्पटिकनितंबिनी यात्रायै समायाताऽस्ति / तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन् , राजपुरुषैविलोक्य सा समानीता / तस्मिन् पुण्ये " याचितेऽप्यददाना कथमपि, त्वया यात्रायां किं व्ययीकृतमिति उक्ता सती, सा प्राह-'भिक्षावृत्त्या मया योजनशतानि देशान्तरमतिक्रम्य ह्यस्तनदिवसे कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः सदने भोजनार्थमुपविष्टा / तदर्द्धमतिथये दत्त्वा च स्वयं पारणकमकार्षम् / भवती पुण्यवती यस्याः पितृ-भ्रातरौ नृपौ, पति-सुतौ च राजानौ / बाहुलोडकरद्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया सपर्यया अगण्यपुण्यमर्जयन्ती, मदीयपुण्ये कृशेऽपि कथं लुब्धासि ? / अन्यच्च-हे मयणल्लादेवि! यदि न कुप्यसि तदा किंचिद् वच्मि / तत्त्वत॥स्तव पुण्यात् मम पुण्यं महीतले महीयः / यतः- . 28. संपत्ती नियमः शक्ती सहनं यौवने व्रतम्। दारिद्रये दानमत्यल्पमपि लाभाय भूयसे // 1 // इति तस्या युक्तियुक्तेन वाक्येन सर्वकषं गर्व विससर्ज / श्रीपत्तनं प्राप्ता / 616. अन्यदा सिद्धपुरेरुद्रमहालयप्रासादे निष्पद्यमाने मत्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे "कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः / पप्रच्छ कोऽत्र विशेषः / श्रीहेमसूरिभिः प्रोक्तम्-'देव ! महेश्वरस ललाटे चन्द्रः, श्रीजिनस्य पादान्ते नवग्रहा भवन्ति'-इति विशेषः / राजा तन्न मन्यते / ततो वास्तुविद्याविशारदः सूत्रधारो विचारं प्राह-'सामान्यलोकानां गृहद्वारं पंचशाखम्, राज्ञां सप्तशाखम् , रुद्रादिदेवानां नवशाखम् , श्रीजिनस्सैकविंशतिशाखं द्वारम् / अष्टोत्तरशतं च मण्डपाः / रुद्रादीनामेक एव / श्रीजिनस्य पद्मासनं, छत्रं, पादान्ते नवग्रहाः, सिंहासनं च / नान्यदेवानाम् / चेत् कश्चित् कारयति, सूत्रधारः करोति, तदा द्वयोर्विधमुत्पद्यते / नान्यथात्वं वास्तुविद्यायाः सर्वज्ञभाषित्वात् / एतदाकर्ण्य राजा प्रमुदितः / वयं राजविहारे कलशाधिरोपणादिकमकारयत्। mmam

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242