Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 160
________________ कुमारपालप्रबोधप्रबन्ध 173 श्रीभगवान् प्राह +'राजन् ! आधार्मिकाभ्याहृत-राजपिण्डादिदोषपितमिदं भक्तादि साधूनामकल्प्य'मिति श्रुत्वा दूनं श्रीभरतं ज्ञात्वा शक्रः प्राह -'मा विषादं कुरु, सर्वज्ञशासने सप्तक्षेत्राणि सन्ति-श्रीजिनभुवन-जिनबिम्ब जिनागम-चतुर्विध-संघ-रूपाणि / तत्र ये साधर्मिका गृहारम्भपराङ्मुखाः संयमपरिणामभाजः संवेगवैराग्यजुषस्तेषां वात्सल्यं कुरु'-इति सुरेन्द्रवचः श्रुत्वा राजा भरतः पूर्वानीतवस्तुभिः साधर्मिकवात्सल्यमकरोत् / तेषां गृहारम्भादिकं निवार्य वृत्तिमकार्षीत् / गृहस्थाचारविचारं चतुरध्यायनिबद्धं श्रावकप्रज्ञप्तिग्रन्थमर्थतो जिनप्रणीतं ते पठन्ति / 'माहन माहन' इति परेषां कथयन्ति, ते मा ह ना इति लोके प्रसिद्धिमगुः / कालेन तेषां वृद्धिरभूत् / ततः षष्ठे षष्ठे मास्याचारग्रन्थपठनादिकां परीक्षां कृत्वा - 'अयं ज्ञान-दर्शन-चारित्राचारशुद्धः' इति काकिण्या रत्नेन कण्ठे रेखात्रयं कृतम् / ततः कालेन परीक्षापूर्व कनकसूत्रत्रयं क्रमेण रौप्यं जातम्। ततः कालेन नवम-दशमजिनयोरन्तरे सकलसाधुव्युच्छदे सति सवंषा लोकानामपरधर्मप्रकाशकाभावादते गुरवः सञ्जाताः।क्रमणाब्रह्मचारिणः कण्ठं सूत्रत्रयधारिणश्चाभूवन्। ततः क्रमणोत्पन्नकेवलज्ञाने दशमजिने धर्म प्रकाशयति, गृहारम्भप्रवृत्तोऽब्रह्मचारिगुरुर्न भवति, इत्युक्ते तेषां जिनधर्मे " च महान् द्वेषोऽभूत् / लोकानामपि मूढमतीनां द्वेषमुत्पादयन्ति / ततः कालेन मिथ्यात्वं गताः / यदुक्तम् - 508. समोसरण भत्तउग्गह अंगुलिझय सकसावगा अहिआ। .. जे यावदृइ कागिणि लंछणअणुमजणा अट्ट // अस्सावगपडिसेहो छठे छठे य मासि अणुओगो। . कालेण य मिच्छत्तं जिणंतरे साहुवुच्छेओ॥ इति द्वेषकारणं ब्राह्मणानां राजा श्रुत्वाऽचिन्तयद्-अहो ! चन्द्रमण्डलादग्निः सुधाकुण्डाद्विषं प्रादुरभूत् / लोकानामभाग्योदयेन श्रीजिनधर्मादपि मिथ्यात्वमभूदिति / श्रीगुरवः प्राहुः-'राजन्नेते तु दर्शनान्तरं प्रतिपन्नाः सन्ति, कालेन केऽपि निह्नवाः, केऽपि निह्नवाभासाः श्रीजिनवचनान्यथावादिनः, स्वमतिप्रकल्पितमतपक्षपातिनः, साधुवेषधारिणोऽपि साध्वाभासाः, प्रमादशीलत्वेनालम्बनपराः, परलोकनिरपेक्षा अनेकधा मतभेदानकार्षुः / एवं राजन् ! खमतेऽप्यनेकमतभेदा अभिमानाज्ञानपरवशैः प्रकल्पिताः सन्ति / 691. अन्यदा कोऽपि मत्सरी श्रीहेमसूरितेजोऽसहिष्णुरेकान्ते राजानमिदमवादीत् -'देव ! प्रायः प्राकृतमेते पठन्ति, सिद्धान्तोऽप्येतेषां प्राकृतमयः / तत् प्रभातेऽश्रोतव्यमिदम् / संस्कृतं स्वर्गिणां भाषा सैव महतां प्रत्यूषे श्रोतव्या श्रेयस्करी चेति / किमर्थं प्रथमं तच्छ्रवणं विधीयते' / एतदाकर्ण्य राजाऽविज्ञातभाषाभेदतत्त्वः, किञ्चिप्राकृतेऽकृतादरस्तत्स्वरूपं श्रीगुरूणामकथयत् / श्रीगुरवः प्राहुः-'अनुपासितसद्गुरुकुलस्य अविज्ञातवाङ्मयतत्त्वस्य कस्यापीदं वचः / राजन् ! अनेकधा भापाभेदवैचित्र्येऽपि, परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं / चतुर्दशस्वस ऽष्टत्रिंशद्व्यजनरूपा (1) द्विपञ्चाशदक्षरप्रमाणा मातृकैवोपदिष्टा / सा च प्राकृतस्वरूपा सर्वप्रकृतिलोकानामुपकारिणीति / ततो बाद्या येऽष्टत्रिंशद्वर्णास्तैः संस्कारे कृते संस्कृतं जातम् / ततश्चानेकभाषाभेदा अभूवन् / तेन सकलशास्त्रमूलं मातृकारूपं प्राकृतमेव / प्रथमं युगादौ लोकोपकाराय प्रथमं प्राकृतमुपदिष्टं सर्वज्ञैरिति / सर्वाक्षरसन्निपातलब्धीनां श्रीद्वादशाङ्गीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धान्तस्य प्राकृतकरणे कारणमिदम् - 510. बालस्त्रीमूढमूर्खाणां नृणां चारित्रकांक्षिणाम् / अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥ राजन् ! भवतु भाषा याऽपि साऽपि परं परमार्थ एव विलोक्यते / यत्पठन्ति लोकाः। अत्यनिवेसा तच्चिय सदा तच्चेव परिणमंता वि / उत्तिविसेसो कव्वं भासा जा होउ सा होउ // 511.

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242